काव्यडाकिनि /42
This page has not been fully proofread.
काव्यडाकिन्या:
अत्र 'विप्रश्चेन भवेत्' इत्येतायतैव समाप्ते वाक्यार्थे'अहो बलवतां'इ-
त्यादिरस्थान एवोपसंहारः प्रकृतार्थप्रातिकूल्यमाचरतीत्यर्थस्थाऽस्थाने
सम्बन्धः ।
भङ्गयन्त रनवीकारत्यागोऽर्थस्याऽनवीकृतिः ॥ ९ ॥
यथा-
सर्वदा सहजो बन्धुः सर्वदा वाति मारुतः ।
सर्वदा दुर्जनो दुःखी सर्वदा सुजनः सुखी ॥
अत्र 'सर्वदा सर्वदा' इत्यनवीकृतत्वम् । न च कथितपदसङ्करः ।
अत्र पर्यायान्तरेणोपादानेऽप्यनवीकृतिस्तत्र तु पदाऽभेद इति भेदः ।
किञ्च कथितपदे निःप्रयोजनपुनर्वचनता, इह तु बन्धुतादीनां दारू
पप्रयोजनसत्त्वात् । अत एव नाऽर्थपुनरुक्तिः । यथोचितं तथोदाहियते-
सर्वदा सहजो बन्धुर्मारुतो वात्यहर्निशम् ।
न कदाप्यसुखी साधुः सततं दुःखभाक् खलः ॥
इत्यनया भट्टया स एवार्थः प्रतिपादयितुमुचितः ।
देशादिभेदतः पञ्चविधा ख्यातिविरुद्धता ॥
आदिशब्दात्कविलोकस्वभावकाला गृह्यन्ते ।
पृथिव्यां सारभूताऽस्ति मिथिला नाम सा पुरी।
यत्रोद्यानघरा भाति कुङ्कुमस्तवकोद्गमैः ॥
अत्र मिथिलायां कुङ्कुमसम्भव इति देशविरुद्धता ।
चरणस्तव तन्वहि ! कामदो नात्र संशयः ।
अङ्कुरो यस्य सम्बन्धी दृश्यतेऽशोकशास्त्रिनि ॥
अत्र कामिनीपादप्रहारेणाऽशोकस्य कुसुमोद्गमः कविषु प्रसिद्धो
न पुरङ्कुरोद्गमः । लोकविरुद्धोऽपि कविप्रसिद्धपा न दोषः ।