This page has been fully proofread once and needs a second look.

अत्र रावणस्य हननाभावे हेतुरुक्तो न पुनरिन्द्रजितः । यद्यप्यत्र
लक्ष्मणप्रतिज्ञारूपहेतुविभावनं, तथाऽपि प्रसिद्ध हेतुनिषेधाभावान्न त-
त्राऽतिप्रसङ्गः ।
 
सन्दिग्धत्वं भवेत्तत्र यत्रार्थस्य तु संशयः ॥
 
यथा--
विशा ज्ञाय प्रश्नतात्पर्यं निर्द्धारयतु कोविदः ।
पादा गिरेः किमासेव्याः किं वा ललितयोषिताम् ॥
अत्र प्रकरणाभावे शृङ्कारी वक्ता किं शान्त इति सन्देहः ।
 
लोकशास्त्रक्रमत्यागो दुःक्रमत्वमिहोच्यते ॥ ८ ॥
 
लोकसिद्धक्रमत्यागात् शास्त्रसिद्धक्रमत्यागा च्च द्विविधमर्थस्य दु:दुः-
क्रमत्वम् । यथा--

हृदयेन्द्र ! महाबाहो ! लाजाविजयराजित ! ।
राजती शतमुद्री मे कानकी वा प्रदीयताम् ॥
 
अत्र कानक्यभावे राजतीयाचनमिति लोकसिद्धः क्रमस्तस्य तु
त्यागः । यथा वा--
 
कारयित्वा सुतस्यैष यज्ञसुसृत्रपरिग्रहम् ।
याति प्रष्टुं तिथिं विप्रो ज्योतिःशास्त्रविशारदम् ॥
 
अत्र शास्त्रविरुद्धक्रमत्यागः ।
 
अस्थानयुक्तताऽर्थानामस्थान उपसंहृतिः ॥
 
यथा--
शम्भोः शस्त्रपरिग्रहः प्रतिपलं युद्धाभिलाषोदयो
वीर्यं संयति कार्तिकेयतुलितं कौक्रौञ्चाद्रिभेत्ता शरः ।
तद्योगो भगवानयं भृगुपतिर्बाह्वोर्ममैवाऽनयो-
र्विप्रश्चेन्न भवेदहो ! बलवतां तुल्यो महादुर्लभः ॥