This page has not been fully proofread.

चतुर्थी दृष्टिः ।
 
अत्र रावणस्य हननाभावे हेतुरुकोक्तो न पुनरिन्द्रजितः । यद्यप्यत्र

लक्ष्मणप्रतिशाज्ञारू पहेतुविभावनं, तथाऽपि प्रसिद्ध हेतुनिषेधाभावान त
न्न त-
त्राऽतिप्रसङ्गः ।
 

 
सन्दिग्धव्त्वं भवेत्तत्र यत्रार्थस्य तु संशयः ॥
 
यथा-

 
यथा--
विशा य प्रश्नतात्पर्यं निर्द्धारयतु कोविदः ।

पादा गिरेः किमासेव्याः किं वा ललितयोषिताम् ॥

अत्र प्रकरणाभावे शङ्कारी वक्ता किकिं शान्त इति सन्देहः ।
 

 
लोकशास्त्रक्रमत्यागो दुःक्रमत्वमिहोच्यते ॥ ८ ॥
 

 
लोकसिद्धक्रमत्यागात् शास्त्रसिद्धक्रमत्यागा द्विविधमर्थस्य दु:-

क्रमत्वम् । यथा-
-
हृदयेन्द्र ! महाबाहो ! लाजाविजयराजित ! ।

राजती शतमुद्री मे कानकी वा प्रदीयताम् ॥
 

 
अत्र कानक्यभावे राजतीयाचनमिति लोकसिद्धः क्रमस्तस्य तु

त्यागः । यथा वा
 
--
 
कारयित्वा सुतस्यैष यज्ञसुत्रपरिग्रहम् ।
 

याति प्रष्टुं तिथिथिं विप्रो ज्योतिःशास्त्रविशारदम् ॥
 

 
अत्र शास्त्रविरुद्ध कमत्यागः ।
 

 
अस्थानयुक्तताऽर्थानामस्थान उपसंहृतिः ॥
 
यथा-

 
यथा--
शम्भोः शत्रपरिग्रहः प्रतिपलं युद्धाभिलाषोदयो
 

वीर्यं संयति कार्तिकेयतुलितं कौञ्चाद्रिभेत्ता शरः ।

तद्योगो भगवानयं भृगुपतिर्बाह्वोर्ममैवाऽनयो-

र्
विप्रश्चेन्न भवेदहो ! बलवतां तुल्यो महादुर्लभः ॥