This page has not been fully proofread.

चतुर्थी दृष्टिः ।
 
अत्र रावणस्य हननाभावे हेतुरुको न पुनरिन्द्रजितः । यद्यप्यत्र
लक्ष्मणप्रतिशारू पहेतुविभावनं, तथाऽपि प्रसिद्ध हेतुनिषेधाभावान त
त्राऽतिप्रसङ्गः ।
 
सन्दिग्धव्वं भवेत्तत्र यत्रार्थस्य तु संशयः ॥
 
यथा-
विशाय प्रश्नतात्पर्य निर्धारयत कोविदः ।
पादा गिरेः किमासेव्याः किं वा ललितयोषिताम् ॥
अत्र प्रकरणाभावे शङ्कारी वक्ता कि शान्त इति सन्देहः ।
 
लोकशास्त्रक्रमत्यागो दुःक्रमत्वमिहोच्यते ॥ ८ ॥
 
लोकसिद्धक्रमत्यागात् शास्त्रसिद्धक्रमत्यागाच द्विविधमर्थस्य दु:-
क्रमत्वम् । यथा-
हृदयेन्द्र ! महाबाहो ! लाजाविजयराजित ! ।
राजती शतमुद्री मे कानकी वा प्रदीयताम् ॥
 
अत्र कानक्यभावे राजतीयाचनमिति लोकसिद्धः क्रमस्तस्य तु
त्यागः । यथा वा
 
कारयित्वा सुतस्यैष यशसुत्रपरिग्रहम् ।
 
याति प्रष्टुं तिथि विप्रो ज्योतिःशास्त्रविशारदम् ॥
 
अत्र शास्त्रविरुद्ध कमत्यागः ।
 
अस्थानयुक्तताऽर्थानामस्थान उपसंहृतिः ॥
 
यथा-
शम्भोः शत्रपरिग्रहः प्रतिपलं युद्धाभिलाषोदयो
 
वीर्य संयति कार्तिकेयतुलितं कौञ्चाद्रिभेत्ता शरः ।
तद्योगो भगवानयं भृगुपतिर्बाह्वोर्ममैवाऽनयो-
विप्रश्न भवेदहो ! बलवतां तुल्यो महादुर्लभः ॥