This page has been fully proofread once and needs a second look.

वित्वरूपकैरवकुलं किं न प्रकाशं व्रजेत, इति दर्शनेषु न चन्द्रस्य गुण-
स्तत्र रेवामाहात्म्यमेव पानेषु तस्य गुण इत्यर्थो दुरूहः ।
 
पुन
रुहः ।
 
पुनरु
क्तत्वमर्थस्य यत्रार्थस्य पुनर्ग्रहः ॥
 
तत्तु द्विविधं पदार्थवाक्यार्थभेदात् । क्रमेण यथा--
 
रे रे पाप ! दशास्य ! तस्करपते ! रे मेघनादादयो !
वाणीमत्र शृणुध्वमुद्भटतमां सत्यामिमां सङ्गरे ।
शांज्ञां श्रीरघुनन्दनस्य शिरसा लब्धाऽद्य लङ्कामितो
युष्माभिः सह रावणेन सहितां द्रागुत्क्षिपाम्यम्बुधौ ||
 
अत्र 'रेरे दशास्य' इति 'युष्माभिः' इति चोकेक्ते सति रावणपदार्थः
पुनरुक्तः ।
 
स्थितवति रणभूमौ सन्धुनाने धनुरर्ज्योयां
रजनिचरचयानामन्तके राघवेऽस्मिन् ।
अलमलमतिभीत्या रामभद्रे कपीन्द्राः !
समरभुवि सचापे किंभवं वो भयं स्यात् ॥
 
अत्र द्वितीयवाक्यार्थः पुनरुक्तः ।
 
निर्हेतुत्वं भवेत्तत्र हेतुर्यत्र न चोच्यते ॥ ७ ॥
 
अर्थात् कार्ये कथिते हेत्वनुक्तिः । न च विभावनालङ्कारेऽतिव्या-
प्तिरिति वाच्यं, तत्र प्रसिद्धहेतुनिषेधो हेत्वन्तरविभावन, मत्र तु हेत्वन-
भिधानमेव । यथा--
 
पूर्वं यस्य वधाय वानरपतेरग्रे प्रतिज्ञा कृता
श्रीरामेण वशं गतोऽपि समरे स त्वत्पिता रावणः ।
जीवन्नेव मयोज्झितो हनुमता काकुत्स्थभक्तात्मना
त्वामप्यद्य न हन्मि पश्य सपदि त्वं जीवलोकानिमान् ॥