This page has not been fully proofread.

अनुत्कर्षेण यस्त्यक्त उत्कर्षमधिरोप्यते ॥
तत्राऽर्थे व्याहतत्वं स्यात् ।
 
'अनुत्कर्षेण'इत्युपलक्षणम् । उत्कर्षेणोपात्तो योऽनुत्कर्षे सोऽधिरो-
प्यते तत्राऽपि व्याहतत्वम् ।
 
प्रथमं यथा--
लोकानन्दन हेतवे जगति ते तिष्ठन्तु पाथोरुह--
श्रीखण्डद्रव चन्द्रिकेन्दुकलिकाचैत्रानिला निर्मलाः ।
अस्माकं तु सखे ! कलानिधिकला यत्सा दृशोगौच
रं
याता, हन्त । स एव सम्प्रति मम त्रैलोक्यराज्योत्सवः ॥

यं प्रत्यनुत्कृष्टषठा चन्द्रकला, स एव कलानिधिकलात्वमुत्कर्षमाधि-
रोपयतीति व्याघातः ।
 
द्वितीयं यथा--
करोति चन्द्रिका सा मे मोदं नेत्रचकोरयोः ।
न पुनश्चन्द्रिका पूर्णशरत्पीयूषरोचिषः ॥
 
अत्र येन चन्द्रिका उत्कर्षायोपात्ता, तस्य चन्द्रिकाऽनुत्कृष्टेति
व्याहृतम् ।
 
कष्टत्वं च दुरुहता ॥ ६॥
 
स्पष्टम् ।

यैई ष्टा हिमकृत्सुताजलरुचिस्तेषां कलङ्काऽघसां
यत्संवीक्षणमस्ति नैव तदभूत्तस्याः प्रभावोदयः ।
यैः पीता पुनरान्तरेण नयनेनाऽत्यन्त सन्तोषिणां

तेषां किं न कवित्वकैरवकुलं लोके प्रकाशं व्रजेत् ॥
 
अत्र हिमकृत्सुता रेवा तज्जलरुविर्यैदृ ष्टा तेषां कलङ्करूपपापानां
यदवीक्षणं तत्कलङ्किनो वि घोस्तत्पितुः न प्रभावः । अपि तु तस्या एव ।
यैः पुनरान्तरेण चक्षुषा पीता तेषां चन्द्रत नया नयाजलरुचि सम्बन्धात्क
 
-