This page has not been fully proofread.

चतुर्थी दृष्टिः ।
अनुत्कर्षेण यस्त्यक्त उत्कर्षमधिरोप्यते ॥

तत्राऽर्थे व्याहतत्वं स्यात् ।
 

 
'अनुत्कर्षेण'इत्युपलक्षणम् । उत्कर्षेणोपात्तो योऽनुत्कर्षे सोऽधिरो-

प्यते तत्राऽपि व्याहतत्वम् ।
 

 
प्रथमं यथा-

लोकानन्दन हेतवे जगति ते तिष्ठन्तु पाथोरुह-

श्रीखण्डद्रव चन्द्रिकेन्दुकलिकाचैत्रानिला निर्मलाः ।

अस्माकं तु सखे ! कलानिधिकला यत्सा दृशोगौचर
 

 
याता, हन्त । स एव सम्प्रति मम त्रैलोक्यराज्योत्सवः ॥

यं प्रत्यनुत्कृष्टष चन्द्रकला, स एव कलानिधिकलात्वमुत्कर्षमाध-

रोपयतीति व्याघातः ।
 

 
द्वितीयं यथा-

करोति चन्द्रिका सा मे मोदं नेत्रचकोरयोः ।

न पुनश्चन्द्रिका पूर्णशरत्पीयूषरोचिषः ॥
 

 
अत्र येन चन्द्रिका उत्कर्षायोपात्ता, तस्य चन्द्रिकाऽनुत्कृष्टेति

व्याहृतम् ।
 

 
कष्टत्वं च दुरुहता ॥ ६॥
 

 
स्पष्टम् ।
 

 
यैईष्टा हिमकृत्सुताजलरुचिस्तेषां कलङ्काऽघसां

यत्संवीक्षणमस्ति नैव तदभूत्तस्याः प्रभावोदयः ।

यैः पीता पुनरान्तरेण नयनेनाऽत्यन्त सन्तोषिणां
 

 
तेषां किं न कवित्वकैरवकुलं लोके प्रकाशं व्रजेत् ॥
 

 
अत्र हिमकृत्सुता रेवा तजलरुविर्यैदृष्टा तेषां कलङ्करूपपापानां

यदवीक्षणं तत्कलङ्किनो विघोस्तत्पितुः न प्रभावः । अपि तु तस्या एव ।

यैः पुनरान्तरेण चक्षुषा पीता तेषां चन्द्रत नया जलरुचि सम्बन्धात्क