This page has been fully proofread once and needs a second look.

अथाऽर्थदोषानाह--
 
अपुष्टव्याहतक्लिष्टपुनरुक्तर्निर्हेतुताः ॥
सन्दिग्धदुःक्रमाऽस्थानयुक्तत्वान्यनवीकृतिः ॥ १ ॥
ख्यातिविद्याविरुद्धत्वे प्रकाशितविरुद्धता ॥
साकाङ्क्षता सहचरभिन्नता विध्ययुक्तता ॥ २ ॥
अविशेषे विशेषश्चाऽनियमे नियमस्तथा ॥
तयोर्विपर्ययौ त्यक्तपुनःस्वीकृतता तथा ॥ ३ ॥
अयुक्तताऽनुवादस्य ग्राम्यता श्लीलता तथा ॥
एवमर्थेषु दोषाः स्युस्त्रयोविंशतिसङ्ख्यकाः ॥ ४ ॥
 
क्लिष्ठत्वं त्वम् । ख्याति प्रसिद्धिः । तयोर्विपर्ययौ विशेष विऽवि-
शेषः, नियमेऽनियमश्च ।
 
तत्र--
मुख्यार्थाऽनुपकारित्वमपुष्टत्वं द्विधा च तत् ॥
अत्यन्ताऽनुपयोगित्वं तथा लब्धत्वमन्यतः ॥ ५ ॥
 
तदर्थोपस्थितिमन्तरेण प्रकृतार्थविघाताभाव इत्यपुष्टत्वमर्थस्य ।
तच्चाऽत्यन्ताऽनुपयोगित्वाऽन्यथालब्धत्वरूपं भेदद्वयमवगाद्दते ।
उभयं यथा--
 
उष्णानल इव सुमुखीमालिङ्गति तो भवद्विरहः ।
रविरविकसितकमलं यथा तदङ्गेषु भस्मसाद्भवति ॥
 
अत्र 'अनलः' इत्युक्तौ औष्ण्यप्रतीते रुष्णशब्दोऽन्यथालब्धार्थीथो, 'र-
वी' त्यादिकमलविशेषणमत्यन्ताऽनुपयोगि-इत्येतदुभयमपुष्टार्थम् ।