This page has not been fully proofread.

काव्यडाकिन्याः
 
अथाऽर्थदोषानाह-
-
 
अपुष्टव्याहत क्लिष्टपुनरुक्तर्निर्हेतुताः ॥

सन्दिग्धदुः क्रमाऽस्थानयुक्तत्वान्यनवीकृतिः ॥ १ ॥

ख्यातिविद्याविरुद्धत्वे प्रकाशित विरुद्धता ॥

साकाङ्क्षता सहचर भिन्नता विध्ययुक्तता ॥ २ ॥

अविशेषे विशेषश्चाऽनियमे नियमस्तथा ॥

तयोर्विपर्ययौ त्यक्तपुनःस्वीकृतता तथा ॥ ३ ॥

अयुक्तताऽनुवादस्य ग्राम्यता श्लीलता तथा ॥

एवमर्थेषु दोषाः स्युस्त्रयोविंशतिसङ्ख्यकाः ॥ ४ ॥
 

 
क्लिष्ठत्वं त्वम् । ख्याति प्रसिद्धिः । तयोर्विपर्ययौ विशेष वि

शेषः, नियमेऽनियमश्च ।
 

 
तत्र--
मुख्यार्थाऽनुपकारित्वमपुष्टत्वं द्विधा च तत् ॥

अत्यन्ताऽनुपयोगित्वं तथा लब्धत्वमन्यतः ॥ ५ ॥
 

 
तदर्थोपस्थितिमन्तरेण प्रकृतार्थविघाताभाव इत्यपुत्वमर्थस्य ।

तच्चाऽत्यन्ताऽनुपयोगित्वाऽन्यथालब्धत्वरूपं भेदद्वयमवगाद्दते ।
 

उभयं यथा-
-
 
-
 
उष्णानल इव सुमुखीमालिङ्गति तो भवद्विरहः ।

रविफरविकसितकमलं यथा तदङ्गेषु भस्मसाद्भवति ॥
 

 
त्र 'अनलः' इत्युक्तौ औष्ण्यप्रतीते रुष्णशब्दोऽन्यथालब्धार्थी, 'र-

वी' त्यादिकमलविशेषणमत्यन्ताऽनुपयोगि-इत्येतदुभयमपुष्टार्थम् ।