This page has been fully proofread once and needs a second look.

न चैकपदस्य द्विःप्रयुज्यमानतया कथितपदत्वं दोष इति वाच्यम् ।
तस्योद्देश्यप्रतिनिर्देश्यातिरिक्तविषयत्वात् । उद्देश्यप्रतिनिर्देश्यादिस्ले
तु तस्यैव पदस्य सर्वनाम्नो वा प्रयोग आवश्यकः । तथा हि--
 
उदेति सविता ताम्रस्ताम्र पत्रास्तमेति च ।
 
इत्यादौ 'रक्त एव' इति पदान्तरेण स एवार्थः प्रतिपाद्यते तदा-
ऽन्योऽर्थ इव भासमानः प्रतीतिस्थगनं करोति । एवं प्रत्ययादीनामत्यन्त-
दूषकत्वाभावादुदाहरणं न दत्तमन्यत्राऽनुसन्धेयम् ।
 
यस्य यत्र प्रयोगोऽस्ति व्युत्पन्नस्तु ततोऽन्यतः ॥
प्रयोगः क्रियते तस्य तदक्रममुदाहृतम् ॥ १७ ॥
 
यथा--
द्दत्ताः शपथा विलोचनपथादन्यत्र सन्निर्गमे
तुभ्यं सभ्य ! मदर्थमालिनिवहैर्यद्वा भवानर्थितः ।
यत्किञ्चित् खलु वाञ्छितं हृदि मया चोत्कण्ठया नेत्रयो
रागेणाऽद्य तथाऽन्वमयित यथा तत्सर्वमापूरितम् ॥
 
अत्र 'यच्च किञ्चित्' इति वाच्यम् । चादिशब्दा यत्समभिव्याहृताः त-
द्रुतमेव स्वार्थं बोधयन्तीति दिक् ॥
 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ
काव्यडाकिन्यां तृतीया दृष्टिः ॥