This page has not been fully proofread.

तृतीया दृष्टि: ।
 
३१.
 
न चैकपदस्य द्विःप्रयुज्यमानतया कथितपदत्वं दोष इति वाच्यम् ।

तस्योद्देश्यप्रतिनिर्देश्यातिरिक्तविषयत्वात् । उद्देश्यप्रतिनिर्देश्यादिस्यले

तु तस्यैव पदस्य सर्वनाम्नो वा प्रयोग आवश्यकः । तथा हि-
-
 
उदेति सविता ताम्रस्ताम्र पत्रास्तमेति च ।
 

 
इत्यादौ 'रक्त एवं' इति पदान्तरेण स एवार्थः प्रतिपाद्यते तदा-

ऽन्योऽर्थ इव भासमानः प्रतीतिस्थगनं करोति । एवं प्रत्ययादीनामत्यन्त-

दूषकत्वाभावादुदाहरणं न दत्तमन्यत्राऽनुसन्धेयम् ।
 

 
यस्य यत्र प्रयोगोऽस्ति व्युत्पन्नस्तु ततोऽन्यतः ॥

प्रयोगः क्रियते तस्य तदक्रममुदाहृतम् ॥ १७ ॥
 

 
यथा-
यद
-
यद
त्ताः शपथा विलोचनपथादन्यत्र सन्निर्गमे
 

तुभ्यं सभ्य । मदर्थमालिनिवहैर्यद्वा भवानर्थितः ।

यत्किञ्चित् खलु वाञ्छितं हृदि मया चोत्कण्ठया नेत्रयो

रागेणाऽद्य तथाऽन्वमयित यथा तत्सर्वमापूरितम् ॥
 

 
अत्र 'यश किञ्चित्' इति वाच्यम् । चादिशब्दा यत्समभिव्याहृताः त
-
द्रुतमेव स्वार्थं बोधयन्तीति दिक् ॥
 

 
इति श्रीमैथिल श्रीगङ्गानन्दक बीवीन्द्रकृतौ

काव्यडाकिन्यां तृतीया दृष्टिः ॥