This page has been fully proofread once and needs a second look.

अत्र व्यञ्जनावृत्तिलभ्योऽर्थः प्रकृतरसविरोधिनः श्रङ्गारस्य व्यञ्जकः ।
 
अनभिहितवाच्यमुदितं नोक्तिर्यस्मिन्नवश्यवाच्यस्य ॥
 
यथा--
शिशिरपयःसिक्तायाः सखीभिरिह ते तथाऽपि तन्वङ्गि ! ।
अपसरति नैव मोहः शिव ! शिव ! कठिनो वियोगाऽग्निः ॥
 
अत्र 'शिशिरपयःसिक्ताऽसि' इति सिक्तत्वस्य विधिर्वाच्यः। 'तथाऽपि '
इत्यस्य द्वितीयार्धे प्रवेशो युक्तः ।
 
आत्मक्लेशनिदानं परिहर मानं सरोजाक्षि ! ।
न मयाऽपराधलवकः कृतो भवत्याः कथं कोपः ॥
 
अत्र 'अपराधलवकोऽपि इति अध्प्यर्थो वाच्यः । न्यूनपदे वाचकपदा-
पेक्षा, इह त्वर्थापेक्षा । अपेस्तु द्योतकत्वादिति विशेषात् ।
 
कारकादिक्रमो यत्र भग्नस्तद्भग्नप्रक्रमम् ॥ १६ ॥
 
आदिशब्दात् प्रकृतिप्रत्ययसर्वनामपर्यायोपसर्गक्रमा गृह्यन्ते ।

कारकस्य यथा--
भाङ्कारैर्मुखरीकरोति हरितो भृङ्गावली सर्वतः
कुञ्जेऽस्मिन्नवमल्लिका विरचयत्यक्ष्णामभीक्ष्णं मुदः ।
रेवासङ्गमशीतलेन मरुता मोदो महान् जन्यते
सङ्गीतानि पिकी तनोति समयो मानस्य नाऽयं तव ॥
 
अत्र सर्वत्राभिहितः कर्ता, 'मरुता' इत्यनभिहितः कर्तेति भग्नः प्रक्रमः ।

प्रकृतेर्यथा--
परदेशं प्रिये याते तद्वियोगासहिष्णवः ।
सत्वरं तेन साकं मे धैर्यलज्जादयो गताः ।
 
अत्र 'याते' इति याधातुप्रस्तावे 'गताः' इति गम्धातोरुपादाने भग्नः
प्रक्रमः ।