This page has not been fully proofread.

३०
 
काव्यडाकिन्याः
 
अत्र व्यञ्जनावृष्त्तिलभ्योऽर्थः प्रकृतरसविरोधिनः शुश्रङ्गारस्य व्यञ्जकः ।
 

 
अनभिहितवाच्यमुदितं नोक्तिर्यस्मिन्नवश्यवाच्यस्य ॥
 

 
यथा-
-
शिशिरपयःसिक्तायाः सखीभिरि ते तथाऽपि तन्वनिङ्गि ! ।

अपसरति नैव मोहः शिव ! शिव ! कठिनो वियोगाऽग्निः ॥

 
अत्र 'शिशिरपयःसिक्ताऽसि' इति सिक्तत्वस्य विधिर्वाच्यः। 'तथाऽपि '

इत्यस्य द्वितीयःयार्धे प्रवेशो युक्तः ।
 

 
आत्मक्लेशनिदानं परिहर मानं सरोजाक्षि ! ।
 

न मयाऽपराधलवकः कृतो भवत्याः कथं कोपः ॥

 
अत्र 'अपराधलवकोऽपि ति अध्यर्थो वाच्यः । न्यूनपदे वाचकपदा-

पेक्षा, इह त्वर्थापेक्षा । अपेस्तु द्योतकत्वादिति विशेषात् ।
 

 
कारकादिक्रमो यत्र भग्नस्तद्भग्नप्रक्रमम् ॥ १६ ॥
 

 
आदिशब्दात् प्रकृतिप्रत्यय सर्वनामपर्यायोपसर्गक्रमा गृह्यन्ते ।
 

कारकस्य यथा-
-
भाङ्कारैर्मुखरीकरोति हरितो भृङ्गावली सर्वतः
 

कुञ्जेऽस्मिन्नव मल्लिका विरचयत्यक्ष्णामभीक्ष्णं मुदः ।

रेवासङ्गमशीतलेन मरुता मोदो महान् जन्यते
 

सङ्गीतानि पिकी तनोति समयो मानस्य नाऽयं तव ॥

 
अत्र सर्वत्राभिहितः कर्ता, 'मरुता' इत्यनाभनभिहितः कर्तेति भग्नः प्रक्रमः ।

प्रकृतेर्यथा-
-
परदेशं प्रिये यातंते तद्वियोगासहिष्णवः ।
 

सत्वरं तेन साकं मे धैर्यलज्जादयो गताः ।
 

 
अत्र 'याते' इति या धातुप्रस्तावे 'गताः' इति गम्धातोरुपादाने भग्नः
 

प्रक्रमः ।