काव्यडाकिनि /36
This page has not been fully proofread.
३०
काव्यडाकिन्याः
अत्र व्यञ्जनावृष्तिलभ्योऽर्थः प्रकृतरसविरोधिनः शुङ्गारस्य व्यञ्जकः ।
अनभिहितवाच्यमुदितं नोक्तिर्यस्मिन्नवश्यवाच्यस्य ॥
यथा-
शिशिरपयःसिक्तायाः सखीभिरि ते तथाऽपि तन्वनि ! ।
अपसरति नैव मोहः शिव ! शिव ! कठिनो वियोगाऽग्निः ॥
अत्र 'शिशिरपयःसिक्ताऽसि' इति सिक्तत्वस्य विधिर्वाच्यः। 'तथाऽपि '
इत्यस्य द्वितीयः प्रवेशो युक्तः ।
आत्मक्लेशनिदानं परिहर मानं सरोजाक्षि ! ।
न मयाऽपराधलवकः कृतो भवत्याः कथं कोपः ॥
अत्र 'अपराधलवकोऽपि ३ति अध्यर्थो वाच्यः । न्यूनपदे वाचकपदा-
पेक्षा, इह त्वर्थापेक्षा । अपेस्तु द्योतकत्वादिति विशेषात् ।
कारकादिक्रमो यत्र भग्नस्तद्भग्नप्रक्रमम् ॥ १६ ॥
आदिशब्दात प्रकृतिप्रत्यय सर्वनामपर्यायोपसर्गक्रमा गृह्यन्ते ।
कारकस्य यथा-
भाङ्कारैर्मुखरीकरोति हरितो भृङ्गावली सर्वतः
कुञ्जेऽस्मिन्नव मल्लिका विरचयत्यक्ष्णामभीक्ष्णं मुदः ।
रेवासङ्गमशीतलेन मरुता मोदो महान् जन्यते
सङ्गीतानि पिकी तनोति समयो मानस्य नाऽयं तव ॥
अत्र सर्वत्राभिहितः कर्ता, 'मरुता' इत्यनाभहितः कर्तेति भग्नः प्रक्रमः ।
प्रकृतेर्यथा-
परदेशं प्रिये यातं तद्वियोगासहिष्णवः ।
सत्वरं तेन साकं मे धैर्यलज्जादयो गताः ।
अत्र 'याते' इति या धातुप्रस्तावे 'गताः' इति गम्धातोरुपादाने भग्नः
प्रक्रमः ।