This page has been fully proofread once and needs a second look.

अत्र मुखस्य चन्द्रोपमायां बावाच्यायामाकारशब्दस्याऽवयत्र संस्थान-
वाचकतया प्रकृताऽनुपयोगात् स्वरूपार्थकत्वं वाध्च्यमित्येव यथाकथञ्चि-
त्समन्वयः ।
 
अपदस्थसमासं तद्यत्राऽस्थाने समासविन्यासः ॥ १४ ॥
 
यथा--
युष्माकं ननु र्षको निशि सुधाधामाऽयमुत्पश्यत
प्रातःकाल उपागतोऽयमधुना यायाद्विदूर कियत् ।
इत्यन्तर्जनितप्रकोपविसराऽऽताम्रकृिताङ्गो रविः
पादाऽऽपातननिःप्रभीकृतविधुर्द्राग्बोधयत्यब्जिनीः ॥
 
अत्र कविनिबद्धस्य क्रुद्धस्य रवेरुक्तौ समासो न कृतः, कवेरुक्तौ
तु कृतः ।
 
वाक्यान्तरपदं वाक्ये यत्र सङ्कीर्णमाह तत् ॥
 
यथा--
शृणुष्व मल्ली कलकूजितानि प्रसूननम्रा पुरतः पिकानाम् ।
उत्कण्ठतेऽस्मिन् सखि ! मे विधातुं तस्मान्निकुञ्जे हृदयं च किञ्चित् ॥
 
अत्र 'पिकानां कलकूजितानि शृणुष्व, पुरतः प्रसूननम्रा मल्ली,
तस्मादस्मिन्निकुञ्जे मे हृदयं किञ्चिद्विधातुमुत्कण्ठने' इति योजना ।
क्लिष्टे तु प्रधानक्रियाभेदो न भवत्यत्र तु तद्भेदः स्फुटः ।
 
प्रकृतस्य रसस्याऽस्ति विरुद्धो यत्र यो रसः ॥
तद्व्यञ्जकोऽपरस्त्वर्थस्तच्चाऽमतपरार्थकम् ॥ १५ ॥
 
यथा--
रामेणात्मभुवा बाणैस्ताडिता सा निशाचरी ।
रक्तचन्दनसिक्ताङ्गी जीवितेशग्टहानगात् ॥