This page has not been fully proofread.

तृतीया दृष्टि: ।
 
२९
 
अत्र मुखस्य चन्द्रोपमायां बाच्यायामाकारशब्दस्याऽवयत्र संस्थान.
-
वाचकतया प्रकृताऽनुपयोगात् स्वरूपार्थकत्वं वाध्यमित्येव यथाकथञ्चि
 
-
त्समन्वयः ।
 

 
अपदस्थसमासं तद्यत्राऽस्थाने समासविन्यासः ॥ १४ ॥
 

 
यथा-
-
युष्माकं ननु घर्षको निशि सुधाघाधामाऽयमुत्पश्यत

प्रातःकाल उपागतोऽयमधुना यायाद्विदूर कियत् ।

इत्यन्त र्जनितप्रकोपविसराऽऽताम्रकृिताङ्गो रविः
 

पादाऽऽपातननिःप्रभीकृतविधुर्द्राग्बोधयत्यब्जिनीः ॥
 

 
अत्र कविनिद्धस्य क्रुद्धस्य खेरवेरुकोक्तौ समासो न कृतः, कवेरुक्ती
तौ
तु कृतः ।
 

 
वाक्यान्तरपदं वाक्ये यत्र सङ्कीर्णमाह तत् ॥
 

 
यथा--

शृणुष्व मल्ली कलकूजितानि प्रसूननम्रा पुरतः पिकानाम् ।
 

उत्कण्ठ तेऽस्मिन् सखि ! मे विधातुं तस्मान्निकुञ्जे हृदयं च किञ्चित् ॥

 
अत्र 'पिकानां कलकूजितानि शृणुष्व, पुरतः प्रसूननम्रा मल्ली,

तस्मादस्मिन्निकुञ्जे मे हृदयं किञ्चिद्वियाधातुमुत्कण्ठने' इति योजना ।

क्लिष्टे तु प्रधानक्रियाभेदो न भवत्यत्र तु तद्भेदः स्फुटः ।
 

 
प्रकृतस्य रसस्याऽस्ति विरुद्धो यत्र यो रसः ॥

तद्
व्यञ्जकोऽपरस्त्वर्थस्तच्चाऽमतपरार्थकम् ॥ १५ ॥
 

 
यथा-
-
रामेणात्मभुवा बाणैस्ताडिता सा निशाचरी ।

रक्तचन्दनसिक्ताङ्गी जीवितेशग्टहानगात् ॥