This page has been fully proofread once and needs a second look.

इत्यादिप्रसिद्धिमतिकाक्रामति यत्तत्प्रसिद्धिधुतम् । यथा--
 
नद्यस्तुङ्गतरङ्गभीषणतया ध्वान्तावलीभिर्जग-
ह्द्व्याप्तं वारिमुत्रांचां रवः सखि ! महाघोरः फणी सर्वतः ।
विद्युद्वीक्षणमात्रतोऽपहरते नेत्रं हटेठेनाऽधुना
यत्सान्निध्यमितः प्रयासि सुभगे ! वन्दामहे तत्तपः ॥
 
अत्र रवो नीचप्राणिध्वनिषु प्रसिद्धो, न तु मेघादिशब्देषु ।
 
कथितपदं तत्कथितं यत्पुनरुक्ति: प्रयोजनाऽभावे ॥
 
यथा--
विकचसरोजोल्लासी रेवाकल्लोलकौतुकोल्लासी ।
सहचरि । समीरणोऽयं प्रसभं मम मानसं हरति ॥
 
अत्र 'उल्लासि' शब्दः पुनरुक्तः । पुनरुपादानाप्रयोजनं विना 'पिष्ट-
पेषण' न्यायेन न चमत्करोतीत्यस्य दोषत्वम् ।
 
न्यूनपदं तत्कथितं नाऽन्वयबोधः पदं विना यत्र ॥ १३ ॥
 
यथा--
करुणाकदम्बकयुता समर्पिता मयि यदा दृष्टिः ।
किं मम तदा त्रिलोकीराज्यसुखैः पर्वतेन्द्रसुते ! ॥
 
अत्र 'दृष्टिः समर्पिता' इत्यत्र 'त्वया' इत्यनुपादानात् न्यूनता ।
 
अधिकपदं तत्कथितं यथाकथञ्चित्समन्वयो यस्य ॥
 
यथा--
चन्द्राकारमनोहरं तव मुखं वाणी मधुस्पर्धिनी
पाणि: पल्लवसुन्दरस्तनुरसौ सौदामिनीबन्धुरा ।
बाहुर्बालमृणालकोमलरुचिर्हास्यं सुधासोदरं
नो जाने सखि ! कस्तपस्यति जनो यस्याऽऽलयं यास्यसि ॥