This page has not been fully proofread.

२८
 
काव्यडाकिन्याः
 
इत्यादिप्रसिद्धिमतिकामति यत्तत्प्रसिद्धिधुतम् । यथा-
नद्यस्तुङ्गतरङ्गभीषणतया ध्वान्तावलीभिजग-
ह्यातं वारिमुत्रां रवः सखि ! महाघोरः फणी सर्वतः ।
विधुवीक्षणमात्र तोपहरते नेत्रं हटेनाऽधुना
 
यत्सान्निध्यमितः प्रयासि सुभगे ! वन्दामहे तत्तपः ॥
अत्र रवो नीचप्राणिध्वनिषु प्रसिद्धो, न तु मेघादिशब्देषु ।
कथितपदं तत्कथितं यत्पुनरुक्ति: प्रयोजनाऽभावे ॥
 
यथा-
विकचसरोजोल्लासी रेवाकल्लोलकौतुकोल्लासी ।
सहचरि । समीरणोऽयं प्रसभं मम मानसं हरति ॥
 
अत्र 'उल्लासि' शब्दः पुनरुक्तः । पुनरुपादानाप्रयोजनं विना 'पिष्ट
पेषण' म्यायेन न चमत्करोतीत्यस्य दोषश्वम् ।
 
न्यूनपदं तत्कथितं नाऽन्वयबोधः पदं विना यत्र ॥ १३ ॥
 
यथा-
यथा-
करुणाकदम्बकता समर्पिता मयि यदा दृष्टिः ।
किं मम तदा त्रिलोकी राज्यसुखैः पर्वतेन्द्र सुते ! ॥
अत्र 'इष्टिः समर्पिता' इत्यत्र 'त्वया' इत्यनुपादानात् न्यूनता ।
 
अधिकपदं तत्कथितं यथाकथञ्चित्समन्वयो यस्य ॥
 
चन्द्राकारमनोहरं तव मुखं वाणी मधुस्पर्धिनी
 
पाणि: पल्लवसुन्दरस्तनुरसौ सौदामिनीबन्धुरा ।
बाहुबलमृणाल कोमलरुचिस्यं सुधासोदरं
 
नो जाने सखि ! कस्तपस्यति जनो यस्याऽऽलयं यास्यास ॥