This page has not been fully proofread.

तृतीया दृष्टि ।
 
यथा वा-

पाणिप्रवालशकलं तव पद्मरागः

कान्ते । पदत्द्वयमुरोजयुगं सरोजम् ।

कण्ठस्तु कम्बुपुटकस्त्रिवलीतरङ्गो

लावण्यवारिनिधिशीत रुचिर्मुखं ते ॥
 

 
अत्र 'वारिनिधि' शब्दस्य समासे गुणीभूतत्वात्तदर्थेन सर्वे प्रचा-

लादयो न सम्बध्यन्ते । अविसृमृष्टविधेयांशे तु यदेवाऽनिष्टं तदेव दो

वत् इह तु सर्वेषां प्रवालादिंपदार्थानां तदङ्गत्वेनाऽप्रतीत्या सम्पूर्ण.
-
वाक्यार्धवैकल्यमिति भेदः ।
 

 
यत्राऽऽरब्धा घटना निपतति पश्चात्पतत्मकर्षप्रकर्षंतत ॥११॥
 

 
स्पष्टम् ।
 

हे इस्तीन्द्रशिशो ! न शोभनमिदं यत्कुञ्जकुक्षिषिंं गत-

स्त्वं वीरुत्ततिमुस्मि क्षिपन् विहरसि प्रोद्दण्डया शुण्डया ।

किञ्च क्षुद्रनमाः । कुरुध्वमधुना कोला ! न कोलाहला-
-
नेतस्मिन् विपिने सुखे मृगपतिर्निदाद्रानितो वर्तते ॥
 

 
अत्राSSरब्धबन्धस्य चतुर्थचरणे निपातः ।
 
पदस्य यस्य यत्रार्ये

 
पदस्य यस्य यत्रार्थे
प्रसिद्धिस्तत्र तत्पुनः ॥

अतिक्रामति तां यत्र प्रसिद्धिधुतमाह तत् ॥ १२ ॥
 

 
न चाऽवाचकेऽतिव्याप्तिरिति वाक्यम् । तात्पर्यगोचर धर्मप्रकारक.
-
प्रनीतेरस्य जनकत्वात् । कव्यनादरविषयत्वेऽपि प्रसिद्धयभाषादप्रयु-

क्
ततोऽस्य भेदः ।
 

 
मञ्जीराविषु रणितप्रायं पक्षिषु च कूजितप्रभृति ।

स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥