This page has not been fully proofread.

२६
 
काव्यडाकिन्याः
 
अत्र 'मृदध्वनिः' इति विशेषणदानात् समाप्तपुनरात्तता ।
 
वाक्यं वाक्यान्तरे यत्र तद् गर्मितमुदाहृतम् ॥१०॥
 
वाक्यमर्थादनुपयुक्तम् । यथा-
विलसति गगने नवाम्बुदाली वहति शनैरनिलस्तरङ्गबन्धुः ।
सहचरि ! हितहेतवे वदामस्तव न मनागपि मानकाल एषः ॥
अत्र 'सह' इत्यादि 'वदामः' इत्यन्तं वाक्यं महावाक्यान्ते प्रवि-
ष्टमनुपयुक्तम् ।
 
अभवन्मतयोगं तद्यत्र भवेदन्वयो नेष्टः ॥
 
यथा--
यैर्न्यस्तास्तव विप्रयोगसमये वह्निस्फुलिङ्गोत्करा
मद्देद्दे मम ये बभूवुरनिशं हा ! इन्त !! मूर्छाकृतः ।
येषां वीक्षणमन्तकोपममभूत् कुन्देन्दुपाथोमुचां
 
नेत्रद्वन्द्वपथं गते त्वयि मम प्राणेश ! ते शैत्यदाः ॥
अत्र 'कुन्देन्दुपाथोमुक्' शब्देन यत्तच्छ्रदानामन्वयः कवेरभिमतः ।
स च नोपपद्यते । तथा हि-यैरित्यत्र कुन्देन्दुपदार्थस्याऽविशेष्यत्वात् ।
ननु 'ये' इति 'येपाम्' इत्यनयोः परस्परमन्वयस्ततः 'कुन्देन्दुपाथोमुचाम्'
इत्यनेन तत्पदार्थस्य विशेष्यतयोपादाने सत्युभयत्राऽन्वयः स्यादिति
चेत् न, 'यैः' इत्यत्राऽनन्वयो भिन्नविभक्तितया तयोरनन्वयाध्य, विशेषण-
पदार्थयोः पराइन्वयतात्पर्येणोपात्ततया परस्परमसम्बन्धाय ।
 
यथा
 
वा-
उत्सारयसि यत्तन्वि ! मुखाद्वासो मनागपि ।
 
मम लोचनयोरध तदा स्याच्चरितार्थता ॥
 
अभ 'यत्' इत्यस्य 'तदा' इत्यनेन सम्बन्धो न घटते । तस्मात् 'चेत्त.
 
न्वि' इति वाच्यम् । 'चेत्' इति पदस्य यदापदार्थकत्वात् ।