This page has been fully proofread once and needs a second look.

अत्र प्रोद्धतवर्णगुम्फः समासदैर्च्येघ्यं च कर्तुमुचितम्, तदभावात्
प्रतिकूलता । यथोचितं तथोदाहियते--
 
उद्दामधुद्युतिदुर्दिनीकृतसमिद् युद्धाऽवरुद्धद्विष--
त्सन्द तद्भुत्तद्रुतचित्तसाध्वसरसा सेयं गदा निर्दया ।
स्त्रं कृष्टवतः पतत्वधिशिरो दुःशासनस्याऽद्य त-
त्पाञ्चाली चिकुरं चिराय विततं ब ध्नातु नि र्बन्धतः ॥
 
अत्र चतुर्थचरणे क्रोधाऽभावादनुद्धतवर्णन्यासः ॥
 
लुप्तविसर्गं तत्स्याद्यत्र विसर्गा विलुप्यन्ते ॥
 
स्पष्टम् ।

कृपणा निर्धना लोका न स्फुटं दोषकारणम् ।
अप्यन्तर्बद्धसंरम्भा नीरदा इव भोगिनः ॥
अत्र कृपणा इत्यादौ असकृद्विसर्गलोपः ।
 
उपहतविसर्गकं तद्यत्र विसर्गा गता ओत्वम् ॥
 
स्पष्टम् । यथा--

अतिसत्वो महाकायो विमलो वसुदो नृपः __
यस्थाsग्रे पार्थकर्णाद्या विस्मृतिं समुपागताः ॥
अत्राऽतिसत्त्व इत्यादावोत्वं प्राप्ता बहवो विसर्गाः ।
 
अस्थानस्थपदं तत्स्याद्यत्राऽस्थाने पदस्थितिः ॥ ६॥
 
यथा--

हरिं सपत्नीनखचिह्नमारादुपेतमत्युत्सुकमानसाऽपि ।
दृशा भृशोन्मीलितशोणभासा न काऽपि गोपी कलयाञ्चकार ॥
 
अत्र 'न कलयाञ्चकार' इति वाच्यम् । अन्यथा, अपि तु सर्वा गोप्यः
कलयाञ्चकुरिति विरुद्धबोधः प्रसज्येत । नञर्थस्य विधेयतया कलन-
समभिव्याहार एव समुचितः । पदस्थाऽस्थाने संनिवेशात्सर्वमेव