This page has not been fully proofread.

२२
 
काव्यडाकिन्याः
 
अत्र प्रोद्धतवर्णगुम्फः समासवैये च कर्तुमुचितम्, तदभावात्
प्रतिकूलता । यथोचितं तथोदाहियते---
उद्दामधुतिदुर्दिनी कृतसमिद् युद्धाऽवरुद्ध द्विष
 
त्सन्द तद्भुत चित्त साध्घसरसा सेयं गदा निर्वथा ।
षत्रं कृष्टवतः पतत्वधिशिरो दुःशासनस्याऽद्य त-
पाञ्चाली चिकुरं चिराय विततं बनातु निर्यन्धतः ॥
अत्र चतुर्थचरणे क्रोधाऽभावादनुद्धतवर्णन्यासः ॥
लुप्तविसर्ग तत्स्याद्यत्र विसर्गा विलुप्यन्ते ॥
 
स्पष्टम् ।
 
कृपणा निर्धना लोका न स्फुटं दोषकारणम् ।
अध्यन्तर्वद्ध संरम्भा नीरदा इव भोगिनः ॥
अत्र कृपणा इत्यादौ असकृद्विसर्गलोपः ।
 
उपहत विसर्गकं तद्यत्र विसर्गा गता ओत्वम् ॥
 
स्पष्टम् । यथा-
अतिसत्वो महाकायो विमलो वसुदो नृपः __
यस्थाsने पार्थकर्णाद्या विस्मृति समुपागताः ॥
अत्राऽतिसत्त्व इत्यादावोत्वं प्राप्ता बहवो विसर्गाः ।
 
अस्थानस्थपदं तत्स्याद्यत्राऽस्थाने पदस्थितिः ॥ ६॥
 
यथा-
हरिं सपत्नीनखचिह्नमारा दुपेत मत्युत्सुकमानसाऽपि ।
 
दशा भृशोन्मीलितशोणभासा न काऽपि गोपी कलयाशकार ॥
अत्र 'न कलयाशकार' इति वाच्यम् । अन्यथा, अपि तु सर्वा गोप्यः
कलयाञ्चकुरिति विरुद्धबोधः प्रसज्येत । नअर्थस्य विधेयतया कलन-
समभिव्याहार एव समुचितः । पदस्थाऽस्थाने संनिवेशात्सर्वमेव