This page has been fully proofread once and needs a second look.

अथ वाक्यदोषानाह--

प्रतिकूलवर्णता स्याल्लुप्तविसर्गोपहतविसर्गत्वे ॥
अस्थानस्थपदत्वं हतवृत्तत्वं विसन्धित्वम् ॥ १ ॥
अर्द्धान्तरैकवाचकसमाप्तपुनरात्तगर्भितत्वानि ॥
अभवन्मतयोगत्वं पतत्प्रकर्षप्रसिद्धिधुतते च ॥ २ ॥
कथितपदत्वं च तथा न्यूनाधिकपदत्वे च ॥
अपदस्थसमासत्वं सङ्कीर्णाऽमत परार्थते चाऽपि ॥ ३ ॥
अनभिहितवाच्यभग्नप्रक्रमते अक्रमत्वं च ॥
एवं किलैकविंशतिरुदीरिता वाक्यवर्तिनो दोषाः ॥४॥
 
क्रमेणैतानाह--
 
यत्र रसाऽननुकूलो वर्णचयो वाक्य एवाऽस्ति ॥
प्रतिकूलवर्णमूचुस्तदलङ्कृतिशास्त्रवेत्तारः ॥ ५ ॥
 
कारेण धोश्रोत्रकटोर्व्युदासः । तस्य पदेऽपि सत्त्वात् । न चाऽप-
दस्थसमांमासेऽतिव्याप्तिरिति वाच्यम् । तत्र समासस्यैव वैरस्याधाय-
कत्वात्, न तु वर्णानाम् । तेषां तु रसाऽनुगुणत्वसम्भावनात् । तदिति
वाक्यम् । तथा च तन्निरूपणेन तद्धर्मनिरूपणसिद्धिरित्युक्तम् ।
 
शृङ्गारे यथा --
 
कष्टमिष्टेन संश्लिष्टा स्पष्टदष्टौष्ठसम्पुटा ।
दृष्ट्या निश्चेष्टयाऽऽचष्ट विम्बौष्ठी नष्टचेष्टताम् ॥

अत्र वर्णानां रसाऽननुगुणत्वं स्पष्टम् ।
 
रौद्रे यथा--
 
श्रीरामस्य वधूं विधूय सहसा तत्साध्वसं चेतसो
च्चौर्येण निशाचराऽधम् ! वनादेकाकिनीमाहरः ।
तस्मादङ्गमिदं नखेन सकलं ते खण्डयित्वा रणे
कुर्यां वालिसुतोऽङ्गदोऽहमचिरादन्वर्थतां नामनि ॥