This page has not been fully proofread.

तृतीया दृष्टिः ।
 
अथ वाक्यदोषानाह-
-
प्रतिकूलवर्णता स्याल्लुप्तविसर्गोपहत विसर्गत्वे ॥

अस्थानस्थपदत्वं हतवृत्तत्वं विसन्धित्वम् ॥ १ ॥

अर्द्धान्तरैकवाचकसमाप्तपुनरात्त गर्मिभितत्वानि ॥

अभवन्मतयोगत्वं पतत्प्रकर्षप्रसिद्धिधुतते च ॥ २ ॥

कथितपदत्वं च तथा न्यूनाधिकपदत्वे च ॥

अपदस्थसमासत्वं सङ्कीर्णाऽमत परार्थते चाऽपि ॥ ३ ॥

अनभिहितवाच्यभग्नप्रक्रमते अक्रमत्वं च ॥

एवं किलैकविंशतिरुदीरिता वाक्यवर्तिनो दोषाः ॥४॥

 
क्रमेणैतानाह-
-
 
यत्र रसाऽननुकूलो वर्णचयो वाक्य एवाऽस्ति ॥

प्रतिकूलवर्णमूचुस्त दलङ्कृतिशास्त्रवेत्तारः ॥ ५ ॥
 

 
एषकारेण धोत्रकटोर्युदासः । तस्य पदेऽपि सत्त्वात् । न चाडप
ऽप-
दस्थसमांसेऽतिव्याप्तिरिति वाच्यम् । तत्र समासस्यैव वैरस्याधाय
-
कत्वात्, न तु वर्णानाम् । तेषां तु रसाऽनुगुणत्वसम्भावनात् । तदिति

वाक्यम् । तथा च तन्निरूपणेन तद्धर्मनिरूपणसिद्धिरित्युक्तम् ।
शहा

 
ङ्गा
रे यथा --
 

 
कष्टमिष्टेन संश्लिष्टा स्पष्टदष्टौष्ठसम्पुटा ।
 

दृष्ट्या निश्चेष्टयाऽऽचष्ट विम्बौष्ठी नष्टचेष्टताम् ॥

अत्र वर्णानां रसाऽननुगुणत्वं स्पष्टम् ।
 

 
रौद्रे यथा-
-
 
श्रीरामस्य वधूं विधूय सहसा तत्साध्वसं चेतसो

यचौर्येण निशाचराऽधम् ! वनादेकाकिनीमाहरः ।

तस्मादङ्गमिदं नखेन सकलं ते खण्डयित्वा रणे
 

कुर्या पायां वालिसुतोऽङ्गदोऽहमचिरादन्वर्थतां नामनि ॥