This page has been fully proofread once and needs a second look.

अनभिप्रेतकर्ताांताारो बहवो भुषि मानवाः ।
कुर्वाणा: के ङ्कृर्ति काका निवसन्ति गृहे गृहे ॥
 
अत्र प्रेतशब्दोऽमङ्गलव्यञ्जकः ।
 
अत्र वामनाचार्येणाऽप्रसिद्धाऽसभ्यलाक्षणिकाऽसभ्यलोकसंघीवीता ऽस-
भ्यार्था: शब्दाः सङ्गृहीताः । यथा--सम्बाध इति पदं सङ्कटार्थ-
प्रसिद्धं न गुह्यार्थप्रसिद्धमिति अप्रसिद्धाऽसभ्यार्थम् । जन्मभूरिति पदं
लक्षणया गुह्यार्थे न शक्त्येति लाक्षणिकाऽसभ्यार्थम् । सुभगाभगिनी-
कुमार्युपस्थानाऽभिप्रेतादिपदं लोके न सङ्गृहीतासभ्यार्थमिति लो-
कसंवीताऽसभ्यार्थम् ।
 
तदुक्तम्--
 
संघीवीतस्य हि लोकेऽस्मिन् न दोषाऽन्वेषणं क्षमम् ।
शिवलिङ्गस्य संस्थाने कस्याऽसभ्या व मावना ॥ इति ।
 
अतः प्रेतशब्दस्य प्रकृतोदाहरणं न सङ्गच्छते, तथाऽपि काव्यप्र-
काशकृदभिप्रेतमिति प्रेतपदमिहोपात्तम् ।
 
लोचने क्रोधकलुषे विक्षिपन्तं रिपून्प्रति ।
हिरण्यरेतः सदृशं कस्त्वां युधि समीक्षताम् ॥
 
अत्र रेतः शब्दो वीडाव्यञ्जकः ।
 
स एव हि चोबाणः सरोजदललोचने ! ।
यत्कृते हिमकृद्भासो न सुखाय भवन्ति ते ॥
 
अत्र स्ववाच्यवाचकत्वसम्बन्धेन वचःशब्देन गीःशब्दो लक्ष्यते ।
अतः पदैकदेशे नेयार्थता । तथैव गीःशर इत्यादावपि । तथा चात्रोभय-
पदं परीवर्ताऽसहम् । वारिध्यादौ तूत्तरपदमेव । वडवाऽनलादौ पूर्वपद-
मेवेति दिक् ॥
 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ
काव्यडाकिन्यां द्वितीया दृष्टिः