This page has not been fully proofread.

२०
 
काव्यडाकिन्याः
 
अनभिप्रेतकर्ताांरो बहवो भुषि मानवाः ।

कुर्वाणा: के र्ति काका निवसन्ति गृहे गृहे ॥
 

 
अत्र
प्रेतशब्दोऽमङ्गलव्यञ्जकः ।
 
अत्र
 

 
अत्र वामनाचार्येणाऽप्रसिद्धाऽसभ्यलाक्षणिकाऽसभ्यलोकसंघीता इस
ऽस-
भ्यार्था: शब्दाः सङ्गृहीताः । यथा-सम्बाध इति पदं सङ्कटार्थ-

प्रसिद्धं न गुह्यार्थ प्रसिद्धमिति अप्रसिद्धाऽसभ्वायार्थम् । जन्मभूरिति प
दं
लक्षणया गुह्यार्थे न शक्त्येति लाक्षणिकाऽसभ्यार्थम् । सुभगाभगिनी-

कुमार्युपस्थानाऽभिप्रेतादिपदं लोके न सङ्गृहीतासभ्यार्थमिति लो-

कसंवीताऽसभ्यार्थम् ।
 

 
तदुक्तम्-
-
 
संघीतस्य हि लोकेऽस्मिन् न दोषाऽन्वेषणं क्षमम् ।

शिवलिङ्गस्य संस्थाने कस्याऽसभ्या व मावना ॥ इति ।

 
अतः प्रेतशब्दस्य प्रकृतोदाहरणं न सङ्गच्छते, तथाऽपि काव्यप्र
-
काशकदभिप्रेत मिति प्रेतपदमिहोपात्तम् ।
 

 
लोचने क्रोधकलुषे विक्षिपन्तं रिपून्प्रति ।

हिरण्यरेतः सदृशं कस्त्वां युधि समीक्षताम् ॥

 
अत्र रेतः शब्दो वीडाव्यञ्जकः ।
 

 
स एव हि षचोबाणः सरोजदललोचने ! ।

यत्कृते हिमकद्भासो न सुखाय भवन्ति ते ॥

 
अत्र स्ववाच्यवाचकत्वसम्बन्धेन वचःशब्देन गीःशब्दो लक्ष्यते ।

अतः पदैकदेशे नेयार्थता । तथैव गीःशर इत्यादावपि । तथा चात्रोभय-
पर्व

पदं
परीवर्ताऽसहम् । वारिध्यादौ तूत्तरपदमेव । वडवाऽनलादौ पूर्वपद
-
मेवेति दिक् ॥
 

 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ

काव्यडाकिन्यां द्वितीया दृष्टिः