This page has been fully proofread once and needs a second look.

भागेऽस्य पदवृत्तित्वाऽभावान्नो वाक्यवृत्तिता ॥१२॥
 
अस्य धोश्रोत्रकटुत्वस्य ।
 
जगद्व्यापि यशः सूते मतिमत्ता मनीषिणाम् ।
अनुक्षणमकीर्ति च मूढानामर्थसंशयः ॥
 
अत्र मत्ताशब्दः प्रसिद्धेन क्षीवाबार्थेन निहतार्थः ।
 
विजेयो मघवदूद्द्रोही निवातकवचो बली ।
पुरा येन पुरस्तस्य कियानेष जयद्रथः ॥
 
अत्र विजेय इत्यत्र यत्प्रत्ययोऽतीतत्वार्थाऽवाचकः ।
 
हृदृष्टान्तीकृत्य कमलं मध्यविभ्रान्तषट्पदम् ।
शङ्के दशः कृशोदर्याः सतारा विदधे विधिः ॥
 
अत्र दश इति बहुवचनमनर्थकम् । एकस्या एव कृशोदर्या उपा-
दानात् । न च हकूदृक्पदं क्रियायां प्रयुक्तमिति वाच्यम्, सतारा इति विशे-
षणस्याऽनन्वयप्रसङ्गात् ।
 
नन्विदमसाधु, द्वयोरेकस्मिन्वा वक्तव्ये बहुवचनस्थायाऽसाधुत्वादिति
चेत्, उच्यते--
 
'बहुष्वि' त्यादिसूत्रेण द्वयोरेकस्य वा भवेत् ॥
तन्निषेधो बहुत्वस्याऽविवक्षायां कदापि नो ॥ १३ ॥
 
तन्निषेधः बहुवचननिषेधः ।
 
परोन्नतिसहो नित्यं निस्पृहो लोभ्यवस्तुषु ।
सर्वकौशलसम्पन्नो नूनमाढ्यचरो भवान् ॥
 
अत्राऽऽढ्यचरशब्दः पूर्वमाढ्य आसीदिति चरट्प्रत्ययान्तः, किमा-
व्ख्येषु चरतीति टप्रत्ययान्तो वेति सन्देहः ।
 
सोमोद्भवाऽभिषेकेण पूयते सकलो जनः ।
न परं ब्रह्मविद्वेषसमासक्तमना द्विजः ॥
 
अत्र पूयशब्दो रसविशेषोपस्थापकत्वेन जुगुप्साव्यञ्जकः ।