This page has not been fully proofread.

द्वितीया दृष्टि ।
 
भागेऽस्य पदवृत्तित्वाऽभावान्नो वाक्यवृत्तिता ॥१२॥

 
अस्य धोत्रकटुत्वस्य ।
 

 
जगद्यापि यशः सूते मतिमसात्ता मनीषिणाम् ।

अनुक्षणमकीर्ति च मूढानामर्थसंशयः ॥

 
त्र मत्ताशब्दः प्रसिद्धेन झीषाक्षीवार्थेन निहतार्थः ।

 
विजेयो मघवदूद्रोही निवातकवचो बली ।

पुरा येन पुरस्तस्य कियानेष जयद्रथः ॥
मन्

 
त्र विजेय इत्यत्र यत्प्रत्ययोऽतीतत्वार्थाऽवाचकः ।

 
हृष्टान्तीकृत्य कमलं मध्यविभ्रान्तषट्पदम् ।
 

शङ्के दशः कृशोदर्याः सतारा विदधे विधिः ॥
 

 
अत्र दश इति बहुवचनमनर्थकम् । एकस्या एव कृशोदर्या उपा.
-
दानात् । न च हकूपदं क्रियायां प्रयुक्तमिति वाच्यम्, सतारा इति विशे
 
-
षणस्याऽनन्वयप्रसङ्गात् ।
 

 
नन्विदमसाधु, द्वयोरेकस्मिन्बावा वक्तव्ये बहुवचनस्थाऽसाधुत्वादिति

चेत, उच्यते--

 
'बहुष्वि' त्यादि सूत्रेण द्वयोरेकस्य वा भवेत् ॥

तन्निषेधो बहुत्वस्याऽविवक्षायां कदापि नो ॥ १३ ॥
 

 
तन्
निषेधः बहुवचन निषेधः ।
 

 
परोन्नतिसहो नित्यं निस्पृहो लोभ्यवस्तुषु ।

सर्वकौशलसम्पन्नो नूनमाढ्यचरो भवान् ॥
 

 
अत्रात्यचर ढ्यचरशब्दः पूर्वमाढ्य आसीदिति चरप्रत्ययान्तः, किमा.
-
व्येषु चरतीति टप्रत्ययान्तो वेति सन्देहः ।
 

 
सोमोन्द्रद्भवाऽभिषेकेण पूयते सकलो जनः ।
 

न परं ब्रह्मविद्वेषसमासक्तमना द्विजः ॥

 
अत्र पूयशब्दो रसविशेषोपस्थापकत्वेन जुगुप्साव्यञ्जकः ।