This page has not been fully proofread.

द्वितीया दृष्टि ।
 
भागेऽस्य पदवृत्तित्वाऽभावान्नो वाक्यवृत्तिता ॥१२॥
अस्य धोत्रकटुत्वस्य ।
 
जगद्यापि यशः सूते मतिमसा मनीषिणाम् ।
अनुक्षणमकीर्ति च मूढानामर्थसंशयः ॥
मत्र मत्ताशब्दः प्रसिद्धेन झीषार्थेन निहतार्थः ।
विजेयो मघवदूद्रोही निवातकवचो बली ।
पुरा येन पुरस्तस्य कियानेष जयद्रथः ॥
मन्त्र विजेय इत्यत्र यत्प्रत्ययोऽतीतत्वार्थाऽवाचकः ।
हृष्टान्तीकृत्य कमलं मध्यविभ्रान्तषट्पदम् ।
 
शङ्के दशः कृशोदर्याः सतारा विदधे विधिः ॥
 
अत्र दश इति बहुवचनमनर्थकम् । एकस्या एव कृशोदर्या उपा.
दानात् । न च हकूपदं क्रियायां प्रयुक्तमिति वाच्यम्, सतारा इति विशे
 
षणस्याऽनन्वयप्रसङ्गात् ।
 
नन्विदमसाधु, द्वयोरेकस्मिन्बा वक्तव्ये बहुवचनस्थाऽसाधुत्वादिति
चेत, उच्यते--
'बहुष्वि' त्यादि सूत्रेण द्वयोरेकस्य वा भवेत् ॥
तन्निषेधो बहुत्वस्याऽविवक्षायां कदापि नो ॥ १३ ॥
 
तनिषेधः बहुवचन निषेधः ।
 
परोजतिसहो नित्यं निस्पृहो लोभ्यवस्तुषु ।
सर्वकौशलसम्पनो नूनमाढ्यचरो भवान् ॥
 
अत्रात्यचर शब्दः पूर्वमाढ्य आसीदिति चरप्रत्ययान्तः, किमा.
व्येषु चरतीति टप्रत्ययान्तो वेति सन्देहः ।
 
सोमोन्द्रवाऽभिषेकेण पूयते सकलो जनः ।
 
न परं ब्रह्मविद्वेषसमासकमना द्विजः ॥
अत्र पूयशब्दो रसविशेषोपस्थापकत्वेन जुगुप्साव्य अकः ।