This page has been fully proofread once and needs a second look.

समासे यथा--
मोछाहेउत्तणमिह जुजाज्जइ विससोअरम्मि चंदम्मि ।
सिरिहंडरण्णवन्धू त्तंसि कहं पण ! नातावेसि ॥*
 
अत्र सोदरे विषसम्बन्धो बन्धौ श्रीखण्डारण्यसम्बन्धश्च मूर्छाता-
पामावौ प्रति हेतुतयाऽभिमतौ । तच्च तयोः समासे गुणीभावादनु-
पपन्नम् । यद्यपि पददोषोऽयं, तथाऽपि पदद्वये वर्तत इति वाक्पदो-
प्रस्तावे प्रोक्तः । एवं समासान्तरेऽप्यूह्यम् ।
 
विरुद्धमतिकारिता यथा--
 
अपाङ्गे कामचाञ्जल्यमधरे खाऽनुरागिता ।
ध्रुवं कमलपत्राक्षि ! को न वश्यो भवेत्तव ॥
 
अत्राऽपाङ्गे व्यङ्गादौ कामतश्चाञ्जल्यमधरे नीचे चाऽनुराग इति
विरुद्धप्रत्ययः । प्रकाशितविरुद्धाऽमतपदार्थाभ्यामर्थव्यञ्जकताविरुद्धा-
थेविषर्थविवक्षाविरहादस्य भेदः ।
 
एवं समासाऽसमासयोः पदवाक्यवृतित्वमुक्त्वा दोषाणां यथा-
सम्मवं पदैकदेशवृतित्वमाह । यथा --
 
कलितवचनवरवादुल्लसल्लोचनत्वात्
सुभगविहसितत्वाद्भङ्गुरभ्रूलतायाः ।

जनयति जनचित्ते हन्त शैवालकेश्याः
परिणतहिमभानोरास्यमस्या विशेषम् ॥
 
अत्र त्वात्वावर्णाः श्रोत्रकटवः ।
 
नन्वत्र नानापदवृत्तित्वे श्रोत्रकटुत्वस्य वाक्यदोषत्वमिति चेत्,
उच्यते--
 
पारुष्यं बहुवर्णानां यत्रैकत्र पदे भवेत् ॥ ११ ॥
तत्राऽस्य पदवृत्तित्वमन्यथा भागवृत्तिता ।
-------------------------------------------------------------------------------
*मूर्छाहेतुत्वमिह युज्यते विषसोदरे चन्द्रे ।
श्रीखण्डारण्यबन्धुस्त्वमसि, कथं पवन ! तापयसि ॥
इतिच्छाया । ( संशोधकः )