This page has not been fully proofread.

१८
 
काव्यडाकिन्याः
 
समासे यथा-
-
मोछाहेउत्तणमिह जुजा विससोअरम्मि चंदम्मि ।

सिरिहंडरण्णवन्धू तंसि कहं पचण ! नावेसि ॥#

 
अत्र सोदरे विषसम्बन्धो बन्धौ श्रीखण्डारण्यसम्बन्धश्च मूर्छाता-

पामावीवौ प्रति हेतुतयाऽभिमतौ । तच्च तयोः समासे गुणीभावादनु.
-
पपन्नम् । यद्यपि पददोषोऽयं, तथाऽपि पदव्द्वये वर्तत इति वाक्पदो
-
प्रस्तावे प्रोकःक्तः । एवं समासान्तरेऽप्यूह्यम्

 
विरुद्धमतिकारिता यथा-
-
 
पनेपाङ्गे कामचाञ्जल्यमधरे खाऽनुरागिता ।
 

ध्रुवं कमलपत्राक्षि ! को न वश्यो भवेत्तव ॥

 
अत्रापाङ्गे व्यादीयङ्गादौ कामतयाश्चाञ्जल्यमधरे नीचे चाऽनुराग इति

विरुद्ध प्रत्ययः । प्रकाशितविरुद्धाऽमतपदार्थाभ्यामर्थव्यञ्जकताविरुद्धा
-
थेविषक्षाविरहादस्य भेदः ।
 

 
एवं समासाऽसमासयोः पदवाक्यवृतित्वमुक्त्वा दोषाणां यथा.
-
सम्मवं] पदैकदेशवृतित्वमाह । यथा -
-
 
कलितवचनवरवादुल्लसल्लोचनत्वात्

सुभगविहसितत्वाद्भङ्गरभ्रूलतायाः ।
 

 
जनयातयति जनचिते हन्त शैवालकेश्याः
 

परिणतहिमभानोरास्यमस्या विशेषम् ॥
 

 
अत्र त्वात्वावर्णाः श्रोत्रकटवः ।
 

 
म्बन्वत्र नाना पदवृत्तित्वे भोश्रोत्रकटुत्वस्य वाक्यदोषत्वमिति चेत्,

उच्यते-
-
 
पारुण्ष्यं बहुवर्णानां यत्रैकत्र पदे भवेत् ॥ ११ ॥

तत्राऽस्य पदवृत्तित्वमन्यथा भागवृत्तिता ।
 

-------------------------------------------------------------------------------
*मूर्छाहेतुत्वमिह युज्यते विषसोदरे चन्द्रे ।
 

श्रीखण्डारण्य बन्धुस्त्वमसि, कथं पवन ! तापयसि ॥

इतिच्छाया । ( संशोधकः )