This page has not been fully proofread.

१८
 
काव्यडाकिन्याः
 
समासे यथा-
मोछाईउत्तणमिह जुजा विससोअरम्मि चंदम्मि ।
सिरिहंडरण्णवन्धू तंसि कहं पचण ! नावेसि ॥#
अत्र सोदरे विषसम्बन्धो बन्धौ श्रीखण्डारण्यसम्बन्धध मूर्छाता-
पामावी प्रति हेतुतयाऽभिमतौ । तच्च तयोः समासे गुणीभावादनु.
पपन्नम् । यद्यपि पददोषोऽयं, तथाऽपि पदव्ये वर्तत इति वाक्पदो
प्रस्तावे प्रोकः । एवं समासान्तरेऽप्यूयम् ।
विरुद्धमतिकारिता यथा-
अपने कामचाञ्जल्यमधरे खाऽनुरागिता ।
 
ध्रुवं कमलपत्राक्षि ! को न वश्यो भवेत्तव ॥
अत्रापाव्यादी कामतयाजल्यमधरे नीचे चाऽनुराग इति
विरुद्ध प्रत्ययः । प्रकाशितविरुद्ध ऽमतपदार्थाभ्यामर्थव्यञ्जकताविरुद्धा
थेविषक्षाविरहादस्य भेदः ।
 
एवं समासाऽसमासयोः पदवाक्यवृतित्वमुक्त्वा दोषाणां यथा.
सम्मवं] पदैकदेशवृतित्वमाह । यथा -
कलितवचनवरवादुल्लसल्लोचनत्वात्
सुभगविहसितत्वारलतायाः ।
 
जनयात जनचिते हन्त शैवालकेश्याः
 
परिणतहिमभानोरास्यमस्या विशेषम् ॥
 
अत्र त्वात्वावर्णाः श्रोत्रकटवः ।
 
नम्बत्र नाना पदवृत्तित्वे भोत्रकटुत्वस्य वाक्यदोषत्वमिति चेत्,
उच्यते-
पारुण्यं बहुवर्णानां यत्रैकत्र पदे भवेत् ॥ ११ ॥
तत्राऽस्य पदवृत्तित्वमन्यथा भागवृत्तिता ।
 
*मूर्छाहेतुत्वमिह युज्यते विषसोदरे चन्द्रे ।
 
श्रीखण्डारण्य बन्धुस्त्वमसि, कथं पवन ! तापयसि ॥
इतिच्छाया । ( संशोधकः )