This page has been fully proofread once and needs a second look.

मालग्रास इत्यत आह--
 
नानारूपेण यच्छब्दद्वयादर्थ उपस्थितः ॥
तमिहैकेन रूपेण परामृशति तत्पदम् ॥ ७ ॥
 
अर्थात् यो योऽर्थस्तमित्यन्वयः । इह प्रकृते एकेन पापत्वेन ।
द्वा --
 
वीप्सयोद्दिश्यते चैकयत्पदे यत्पदद्वयम् ॥
आदेशियत्पदेनाऽर्थः समुपस्थापितोऽखिलः ॥ ८ ॥
एकरूपेण तं त्वेकं परामृशति तत्पदम् ॥
अतो न तत्पदे वीप्सा कुत्राऽपि च समीक्ष्यते ॥९॥
यदि वा दृश्यते क्वाऽपि तत्र स्यात्तुल्ययोगिनी ॥
 
यत्पदेन एकरूपेण उपस्थापित इत्यन्वयः । एकं तत्पदमित्यन्वयः ।
तुल्ययोगिनीति यावत्सङ्ख्याकं पायावत्पदं तावस्सङ्ख्याकतत्पदयोगस-
तीत्यर्थः । 'यं यं पश्यसि सुतनो ! स स रतिरमणेन हन्यते बाणैः' इत्या-
दौ तुल्ययोगो बोध्यः । य स्तु विशेषः- यत्पदाभ्यामनादेशिरूपाभ्यां
भिन्नभिन्नरूपेणोपस्थापितं वस्तु तत्पदाभ्यां परामृश्यते ।
 
स सुन्दरः स सर्वशः स सुबुद्धिः स कोविदः ।
स पूज्य: सर्वदो लोके यस्मिन् देवि ! कृपा तथ ॥
 
इत्यत्रैकयच्छब्दोपादाने सति बहूनां तच्छब्दनामुपादानात् पूर्षोवो-
क्तमसङ्गतमित्यत आह--
 
आकाङ्क्षा यत्तदोः शाब्दी भवेद्यत्र परस्परम् ॥१०॥
तत्रैवैकतरादाने दोषोऽयं समुदीरितः ॥