This page has not been fully proofread.

द्वितीय दृष्टिः ।
 
षमाल इत्यत आई-
नानारूपेण यच्छन्ददयादर्थ उपस्थितः ॥
तमिहैकेन रूपेण परामृशति तत्पदम् ॥ ७ ॥
 
अर्थात् यो योऽर्थस्तमित्यन्वयः । इह प्रकृते एकेन पापत्वेन ।
 
या
 
१७
 
वीप्सयोद्दिश्यते चैकयत्पदे यत्पदद्धयम् ॥
 
आदेशियत्पदेनाऽर्थः समुपस्थापितोऽखिलः ॥ ८ ॥
एकरूपेण तं त्वेकं परामृशति तत्पदम् ॥
अतो न तत्पदे वीप्सा कुत्राऽपि च समीक्ष्यते ॥९॥
यदि वा दृश्यते काऽपि तत्र स्यात्तुल्ययोगिनी ॥
 
यत्पदेन एकरूपेण उपस्थापित इत्यन्धयः । एकं तत्पदमित्यन्वयः ।
तुल्ययोगिनीति यावत्सङ्ख्याकं पावत्पदं तावरसङ्ख्याकतत्पदयोगव
तीत्यर्थः । 'यं यं पश्यसि सुतनो ! स स रतिरमणेन हन्यते बाणैः' इत्या.
दौ तुल्ययोगो बोध्यः । यस्तु विशेषः यत्पदाभ्यामनादेशिरूपाय
भिनभिन्नरूपेणोपस्थापितं वस्तु तत्पदाभ्यां परामृश्यते ।
 
-
 
स सुन्दरः स सर्वशः स सुबुद्धिः स कोविदः ।
स पूज्य: सर्वदा लोके यस्मिन् देवि ! कृपा तथ ॥
 
इत्यत्रेयोपादाने सति बहूनां तच्छन्दानामुपादानात् पूर्वो
कमसङ्गतमित्यत आई-
आकाङ्क्षा यत्तदोः शाब्दी भवेद्यत्र परस्परम् ॥१०॥
तत्रैवैकतरादाने दोषोऽयं समुदीरितः ॥