This page has not been fully proofread.

यदि च – 'यदद्भुतं नो कमलस्य लक्ष्मीम्' इत्यादि क्रियेत,
सदा तद्दोषताद्वस्थ्यम् ।
 
उभयोरनुपादाने यथा--
 
दुर्गतिदारणहेतोरकृप ! नृप ! प्रार्थये न त्वाम् ।
काचिद्वैन्यनिहन्त्री जगदुपरिष्टाद्वरीवर्ति ॥
 
अत्र यत्तच्छब्दयोरुपादानं विना या काचिज्जगदुपरि वरीवर्ति तां
प्रार्थयेऽहमिति सामर्थ्यादनवरुद्धा बुद्धिरुत्पद्यते । अन्यथा पूर्वोत्तराभ्यां
मिलित्वा नैकार्थप्रतिपतिः । पूर्वार्धोत्तरार्धवाक्ययोर्नैकवाक्यताप्रति-
पतिरित्यर्थः ।
 
ननु 'स भाग्यवान् शूलिनि यस्य भक्तिः' इत्यादीदौ उत्तरवाक्यस्थमपि
यत्पदं तच्छन्दमपेक्षते, तस्मात्कचित्तच्छन्ब्दाऽनपेक्षी यच्छन्ब्द इति न
सङ्गच्छते इत्यत आह --
 
उत्तरस्मिन् गतं वाक्ये यदा भवति यत्पदम् ॥
तच्छन्ब्दस्याऽनुपादानमादानं वा न दूषणम् ॥ ५॥
 
उत्तरवाक्यस्थे यच्छन्ब्दे तच्छन्ब्दः पूर्ववाक्ये चेदुपादीयते, न वोपा-
दीयते, उभयथाऽपि न दोषः ।
'तद्वचीचो यदि पिकेन लज्जितम्' इत्यत्राऽन्यत्र वा पूर्ववाक्यगतो
यच्छन्दस्तच्छन्ब्दस्तच्छब्दं नाऽपेक्षते तत्कथमनुगम इत्याशङ्कायामाह--
 
यदी त्यादिपदं यत्र पूर्ववाक्यगतं भवेत् ॥
न तत्र तत्पदापेक्षा भवतीति व्यवस्थितिः ॥ ६॥
 
आदिशब्दात् यत्रेति पदं गृह्यते ।
 
ननु 'मया यद्यत्कृतं पापं तन्मे हर महेश्वरि !' इत्यत्र यदी-
त्यादिपदभिन्नं यत्पदस्वरूपमस्ति, द्वितीयतत्पदं नास्तीति पूर्वोक्तदो-