This page has not been fully proofread.

द्वितीया दृष्टिः ।
 
त्युत्सुका लक्ष्मीर्यस्याऽसौ सुप्रियो भवेत्' इत्याद्यसङ्गतं स्यात् ।
 
ननु बहुषु स्थलेषु यत्तदोरेकैकस्य प्रयोगदर्शनान्नित्यसापेक्षत्वाऽभा-
वात्तत्कथमत्र दोषावतार इति चेत् न, क्वचिदेकतरोपादाने क्वचिदुभयो-
रनुपादानेऽर्थसामर्थ्याद्यत्तदोरर्थः प्रतीयते इत्येव यत्तदोर्नित्याऽभिसम्ब
न्धो न तु सर्वत्र शब्दोपात्तत्वनियमः । तथा हि-
यस्योपरि प्रतिपलं परिपालयन्ती
 
सा सर्वतो बलवती भवितव्यताऽस्ति ।
हन्तुमुद्यतकरालकृपाणपाणिः
 
क्रोधातुरोऽपि शमनः कथमस्तु शक्तः ॥
 
तं
 
इत्यादौ प्रसिद्धाऽर्थविषये,
 
पाणिभ्यां नवपल्लवस्य विजयं वाचा मधूलीभयं
 
कान्त्या काञ्चनवञ्चनं विदधतीमक्ष्णा मृगक्षोभणम् ।
तामालोकयतः सुधाकरमुख लज्जामुषा चक्षुषा
 
सान्द्रानन्दपयोनिधौ मम सखे ! सद्यो निमनं मनः ॥
 
इत्यादौ पूर्वप्रक्रान्ताऽर्थविषये,
 
कुतः कमलपत्राक्षि ! तदेव चदनं तव ।
साञ्जनाऽश्रुसमासङ्गानीयते चन्द्रतुल्यताम् ॥
इत्यादौ अनुभूताऽर्थविषये च तच्छन्दो यच्छन्दं नाऽपेक्षते ।
क्वचित्तु तच्छब्दाऽनपेक्षी यच्छन्दो यथा-
न विस्मयो यत्कमलस्य लक्ष्मी रक्ताऽधरासङ्गि मुखं मुमोष ।
कर्णाऽन्तिके सञ्चरताऽम्बुजश्रीस्त्वया हृता नेत्र ! विचित्रमेतत् ॥
अत्र न विस्मयो नाश्चर्य इति प्रथममन्वयबोधे कुतो न विस्मय
इत्याकाङ्क्षायां यत्कमलस्य लक्ष्मी रक्ताऽधरासङ्गि मुखं मुमोष' इत्यन्वय
बोधे यत्पदस्य न तत्पदाकाङ्क्षा । वस्तुतस्तु उत्तरवाक्यस्थिते यत्पदे
पूर्ववाक्ये न तच्छब्दस्य शाब्दमुपादानम् । अर्थसामर्थ्यात्तत्पदाऽर्थः
प्रतीयते ।