This page has not been fully proofread.

अयथावद्विनिर्देशं तु प्रकारान्तरेणाऽऽह--
 
यच्छब्दानन्तरं यत्र तच्छब्दो नैव दीयते ॥ ३ ॥
समासे वा गुणीभूतः सम्बन्धो यत्र गम्यते ॥
तत्र तत्र बुधाः प्रोचुरविमृष्टविधेयताम् ॥ ४ ॥
 
यच्छब्दाऽनन्तरमित्युपलक्षणम् । तच्छब्दाऽनन्तरं यच्छब्दानुपादा-
नेऽपि बोध्यम् । यथा--
 
अष्टाङ्गयोगपूतानामज्ञेयो योगिनामपि ।
योऽसौ गोपवधूवृन्दैरमन्दमुपभुज्यते ॥
 
अत्रासाविति पदं विधेयतच्छब्दाऽभिप्रायेण प्रयुक्तमपि विधेया-
ऽबोधकम् । ननु--
 
अमुष्य भरतस्योक्तं श्रुत्वा मूर्छन्ति मे मुदः ।
शिखण्डिन्या इचाऽकाण्डे वारिवाहस्य गर्जितम् ॥
 
इत्यत्राऽमुध्येति पदं तत्पदार्थमभिधत्तेऽतोऽदःशब्दस्तत्पदार्थ
इति । मैवम्--
 
योऽसौ ग्राहमुखग्रासादुज्जहार करीश्वरम् ।
स त्राता दुःखपाथोधेर्मम नान्योऽस्ति कश्चन ॥
 
इत्यत्र स इति पदमनर्थकं स्यादतोऽदःशब्दो न तच्छब्दार्थकः |
अथ--
 
यस्व मनागपि भक्तिर्भगवति भूताऽधिनाथेऽस्ति ।
क्षणमपि किमस्यभूयात्कथय सखेऽनिष्टसम्पर्कः ॥
 
इत्यत्रेदंपदस्येवाऽदःपदस्य सर्वत्र तत्पदाऽर्थाऽभिधायकत्वमिति चेत्
सत्यं, परं तु तस्मिन्नेव वाक्ये स्थितमदःपदं प्रसिद्धिमेव परामृशति न
तत्पदार्थमभिधत्ते । तथा हि-यत्पदनिकटस्थितस्याऽदःपदस्य प्रसिद्धय-
र्थकता । न वाक्यान्तरोपात्तस्यं तु तथा । यत्पदनिकटस्थित स्वा ऽदःप-
दस्य च प्रसिद्ध्यर्थकतायां समानविभक्तिकत्वनियमः । अन्यथा- 'तमभ्ये-