This page has not been fully proofread.

काव्यडाकिन्याः
 
अयथावद्विनिर्देशं तु प्रकारान्तरेणाऽऽह-
-
 
यच्छन्दानन्तरं यत्र तच्छन्दो नैव दीयते ॥ ३ ॥

समासे वा गुणीभूतः सम्बन्धो यत्र गम्यते ॥

तत्र तत्र बुधाः प्रोचुरविमृष्टविधेयताम् ॥ ४ ॥
 
१४
 

 
यच्छन्दाऽनन्तरमित्युपलक्षणम् । तच्छच्ब्दाऽनन्तरं यच्छब्दानुपादा
-
नेऽपि बोध्यम् । यथा-
-
 
अष्टाङ्गयोगपूतानामशेयो योगिनामपि ।

योऽसौ गोपवधूवृन्दैरमन्दमुपभुज्यते ॥
 

 
अत्रासाविति पदं विधेयतच्छन्ब्दाऽभिप्रायेण प्रयुक्तमपि विधेया-

ऽबोधकम् । ननु-
-
 
अमुष्य भरतस्योक्तं श्रुत्वा मूर्च्छन्ति मे मुदः ।
 

 

शिखण्डिन्या इचाकाण्डे वारिवाहस्य गर्जितम् ॥

 
इत्यत्राऽमुध्येति पदं तत्पदार्थमभिधत्तेऽतोऽदःशब्दस्तत्पदार्थ

इति । मैवम्-
-
 
योऽसौ ग्राहमुखग्रासादुज्जहार करीश्वरम् ।

स त्राता दुःखपाथोधेर्मम नान्योऽस्ति कश्चन ॥

 
इत्यत्र स इति पदमनर्थकं स्यादतोऽदःशब्दो न तच्छन्ब्दार्थकः
 
|
अथ-
-
 
-
 
यस्व मनागपि भक्तिर्भगवति भूताऽधिनाथेऽस्ति ।
 

क्षणमपि किमस्यभूयात्कथय सखेऽनिष्टसम्पर्कः ॥

 
इत्यत्रेदंपदस्येवाऽदःपदस्य सर्वत्र तत्पदाऽर्थाऽभिधायकत्वमिति चेत्

सत्यं, परं तु तस्मिन्नेव वाक्ये स्थितमदः पदं प्रसिद्धिमेव पराभृमृशति न

तत्पदार्थमभिधत्ते । तथा हि -यत्पदनिकटस्थितस्याऽदःपदस्य प्रसिद्धय-

र्थकता । न वाक्यान्तरोपात्तस्यं तु तथा । यत्पदनिकट स्थित स्वाद.प.
ऽदःप-
दस्य च प्रसिद्ध्यर्थकतायां समान विभक्तिकत्वनियमः । अन्यथा- 'तमभ्ये-