This page has not been fully proofread.

काव्यडाकिन्याः
 
अयथावद्विनिर्देशं तु प्रकारान्तरेणाऽऽह-
यच्छन्दानन्तरं यत्र तच्छन्दो नैव दीयते ॥ ३ ॥
समासे वा गुणीभूतः सम्बन्धो यत्र गम्यते ॥
तत्र तत्र बुधाः प्रोचुरविमृष्टविधेयताम् ॥ ४ ॥
 
१४
 
यच्छन्दाऽनन्तरमित्युपलक्षणम् । तच्छच्दाऽनन्तरं यच्छब्दानुपादा
नेऽपि बोध्यम् । यथा-
अष्टाङ्गयोगपूतानामशेयो योगिनामपि ।
योऽसौ गोपवधूवृन्दैरमन्दमुपभुज्यते ॥
 
अत्रासाविति पदं विधेयतच्छन्दाऽभिप्रायेण प्रयुक्तमपि विधेया-
ऽबोधकम् । ननु-
अमुष्य भरतस्योक्तं श्रुत्वा मूर्च्छन्ति मे मुदः ।
 

 
शिखण्डिन्या इचाडकाण्डे वारिवाहस्य गर्जितम् ॥
इत्यत्राऽमुध्येति पदं तत्पदार्थमभिधत्तेऽतोऽदःशब्दस्तत्पदार्थ
इति । मैवम्-
योऽसौ ग्राहमुखग्रासादुजहार करीश्वरम् ।
स त्राता दुःखपाथोधेर्मम नान्योऽस्ति कश्चन ॥
इत्यत्र स इति पदमनर्थकं स्यादतोऽदःशब्दो न तच्छन्दार्थकः ।
 
अथ-
-
 
यस्व मनागपि भक्तिर्भगवति भूताऽधिनाथेऽस्ति ।
 
क्षणमपि किमस्यभूयात्कथय सखेऽनिष्टसम्पर्कः ॥
इत्यत्रेदंपदस्येवाऽद पदस्य सर्वत्र तत्पदाऽर्थाऽभिधायकत्वमिति चेत्
सत्यं, परंतु तस्मिन्नेव वाक्ये स्थितमदः पदं प्रसिद्धिमेव पराभृशति न
तत्पदार्थमभिधत्ते । तथा हि यत्पदनिकटस्थितस्याऽदःपदस्य प्रसिद्धय-
र्थकता । न वाक्यान्तरोपात्तस्यं तु तथा । यत्पदनिकट स्थित स्वाद.प.
दस्य च प्रसिद्ध्यर्थकतायां समान विभक्तिकत्वनियमः । अन्यथा- 'तमभ्ये-