This page has been fully proofread once and needs a second look.

पावकं हि पितृसद्म सत्वरं याहि सुन्दरि! किमत्र तिष्ठ[सि]ति ।
म्लानिमानमपकृष्य तत्र ते संस्कृतिं तु जननी विधास्यति ॥
 
अत्र पितृसद्मसंस्कृतिशब्दावमङ्गलव्यञ्जकौ ।

महत्ते साधनं दृष्ट्वा त्रसत्येवोपसर्पणात् ।
कम्पनाऽरालनेत्राऽसावनन्यजभया नृप ! ॥
 
अत्र साधनोपसर्पणशब्दौ पुंव्यञ्जनसुरताऽऽरम्भस्मारकनया लज्जा-
दायिनौ ।
 
सर्वदा वर्तते यस्मिन्नाशयः सर्वतो बली ।
जायतां सुमतेस्तस्य तीव्रसंवेगिता कुतः ॥
 
अत्राऽऽशयतीव्र संवेगिताशब्दा वासनाऽतिशयवैराग्यपर्याया योग-
शास्त्रमात्रे प्रतीताः ।
 
नितम्बं किरणद्वन्द्वे परिधेहि सुलोचने ।
भवत्यास्तरलो नित्यं लक्ष्यते भूषणस्पृही ॥
 
अत्र नितम्बकिरणतरलशब्दैः कटककरनायकशब्दाः प्रयोजनं विना
यल्लश्यन्ते तदेव नेयार्थता ।
 
चेतो वाचं श्रवणद्वयं च पाथोजनयनायाः ।
तुष्यति निस्सरदमृतद्वापगां मे समाकर्ण्य ॥
 
अत्र पाथोजनयनाया वाचं समाकर्ण्य मे चेतः श्रवणद्वयं च तुष्य-
तीति सम्बन्धे क्लिष्टत्वम् ।
 
हासश्रीर्जयति क्षपाकरमपाकुर्वन्ति केशत्विषः
शैवालानि विलोचनं विदलयत्यम्भोजदम्भोदयम् ।
एषा निश्चलया चिरं चपलया कल्याणि ! तुल्या तनु-
र्यस्मिन्भाविनि ! भावितासि भुवने देवोऽयमेवोदितः ॥
 
अत्र नायिकाभावनाविषयो नायकःप्राप्तस्तमयमित्यनेनाऽनूध्द्य तत्रा-
ऽप्राप्तं देवत्वं विधातुमुचितम् । तस्मादयमेव देव इति युक्तम् । यदु-
क्तम्--'अनुवाद्यमनुक्त्वैव विधेयं न प्रदर्शयेत्' इति ।