This page has not been fully proofread.

द्वितीया दृष्टिः ।
 
पावकं हि पितृसद्म सत्वरं याहि सुन्दरि! किमत्र तिष्ठ[सि]ति ।

म्लानिमानमपकृष्य तत्र ते संस्कृति तु जननी विधास्यति ॥

 
अत्र पितृसद्मसंस्कृतिशब्दावमङ्गलव्यञ्जकौ ।
 

महत्ते साधनं दृष्ट्वा त्रसत्येवोपसर्पणात् ।

कम्पनाइरालनेत्राऽसावनन्यजभया नृप ! ॥
 

 
अत्र साधनोपसर्पणशब्दी पुंव्यञ्जनसुरताऽऽरम्भस्मारकनया लजा-

दायिनी ।
 

 
सर्वदा वर्तते यस्मिन्नाशयः सर्वतो बली ।

जायतां सुमतेस्तस्य तीव्र संवेगिता कुतः ॥
 

 
अत्राशय तीव्र संवेगिताशब्दा वासनाऽतिशय वैराग्य पर्याया योग-

शास्त्रमात्रे प्रतीताः ।
 

 
नितम्बं किरणद्वन्द्वे परिधेहि सुलोचने ।

भवत्यास्तरलो नित्यं लक्ष्यते भूषणस्पृही ॥
 

 
अत्र नितम्बकिरणतरल शब्दैः कटककरनायकशब्दाः प्रयोजनं विना

यल्लश्यन्ते तदेव नेयार्थता ।
 

 
चेतो वाचं श्रवणद्वयं च पाथोजनयनायाः ।

तुष्यति निस्सरदमृतद्वापगां मे समाकर्ण्य ॥

 
अत्र पाथोजनयनाया वाचं समाकर्ण्य मे चेतः श्रवणद्वयं च तुष्य-

तीति सम्बन्धे क्लिष्टत्वम् ।
 

 
हासीर्जयति क्षपाकरमपाकुर्वन्ति केशत्विषः
 

शैवालानि विलोचनं विदलयत्यम्भोजदम्भोदयम् ।

एषा निश्चलया चिरं चपलया कल्याणि । तुल्या तनु-

र्यस्मिन्भाविनि ! भावितासि भुवने देवोऽयमेवोदितः ॥

 
अत्र नायिकाभावनाविषयो नायकःप्राप्तस्तमयमित्यनेनाऽन्द्य तत्रा-

ऽप्राप्तं देवत्वं विधातुमुचितम् । तस्मादयमेव देव इति युक्तम् । यदु-

कम-'अनुवाद्यमनुक्त्वैव विधेयं न प्रदर्शयेत्' इति ।