This page has been fully proofread once and needs a second look.

च्यते । प्रकृते पुनः शिवविषयकरतिभावस्य सत्वात्तस्य च वर्णानां श्रु-
स्त्युद्वेजकतया स्थगनमतो न विरोधः ।
 
सुत्रामा दैवतो यस्य रक्षकस्तं सुरद्रुमम् ।
अद्याऽऽनयाम्यहं कृष्णः सत्यं सत्ये ! ब्रवीमि ते ॥
 
अत्र सुत्रामदैवतशब्दौ शक्रपुंल्लिङ्गयोरप्रयुक्तौ ।

गावौ हरिपयोजातौ क्षयश्च मकरध्वजे ।
कुजश्च वध्यो यस्याऽऽसीत्स दद्याद्भविकं विभुः ॥
 
अत्र गोहरिपयोजातक्षयमकरध्वजकुजशब्दाः वृषभशक्रकमलविना-
शकामग्रहविशेषाऽर्थतया प्रसिद्धाऽर्था नेत्ररविचन्द्रगृहपयोधिनरका-
सुरार्थेषु निताऽर्थाः ।
 
गुणैस्तुषारसदृशैर्धवलोऽसि महीभृताम् ।
जनैः समन्ततः स्तोत्रकोटिलक्ष्मा हि गीयते ॥

त्रोश्लोक्यमानस्य वृषभत्वप्रतीत्याऽनुचिताऽर्थता ।

लोकाऽसमेन सम्पूज्या सदा समभुजप्रिया ।
करोतु सुखजातं ते जलाश्रयशरीरजा ॥
 
अत्र लोकाऽसमसमभुजजलाश्रयशरीरजशब्दा लोकत्रयचतुर्भुजज-
लनिधितनूजानामवाचकाः ।
 
फूत्कारोच्छ्रछूनगल्लोऽयं रोदिति प्रतिवासरम् ।
त्यक्तखादनपानश्च भल्लं वेत्ति न किञ्चन ॥
 
अत्र फूत्कारगल्लादिशब्दा ग्राम्याः ।

वामाऽवलोकनोत्साही विग्रहव्यग्रलोचनः ।
सकम्पकटकोऽप्येष किञ्चित्कर्तुं समीहते ॥
 
अत्र नावामादिशब्दाः शत्रुयुद्धसेनार्थाः, किं कामिनीदेहकङ्कणार्या इ-
ति सन्देहः ।
 
विशो वाणिज्यकर्तारः सुखिनः स्युस्तदा गृहे ।
यदि तेषां स्वकृत्येषु प्रवृत्तिः सततं भवेत् ॥

अत्र विटप्रवृत्तिशब्दौ जुगुप्साव्यञ्जकौ ।