This page has not been fully proofread.

१२
 
काव्यडाकिन्याः
 
च्यते । प्रकृते पुनः शिवविषयकरतिभावस्य सत्वात्तस्य च वर्णानां श्रु-

स्युद्वेजकतया स्थगनमतो न विरोधः ।
 

 
सुत्रामा दैवतो यस्य रक्षकस्तं सुरद्रुमम् ।
 

अद्याऽऽनयाम्यहं कृष्णः सत्यं सत्ये ! ब्रवीमि ते ॥

 
अत्र सुत्रामदैवतशब्दौ शक्रपुंल्लिङ्गयोरप्रयुक्तौ ।
 

गावौ हरिपयोजातौ क्षयश्च मकरध्वजे ।

कुजश्च वध्यो यस्याऽऽसीत्स दद्याद्भविकं विभुः ॥

 
अत्र गोहरिपयोजातक्षय मकरध्वजकुजशब्दाः वृषभशक्र कमलविना-

शकामग्रहविशेषाऽर्थतया प्रसिद्धाऽर्था नेत्ररावरविचन्द्रगृहपयोधिनरका-

सुरार्थेषु निइताऽर्थाः ।
 

 
गुणैस्तुषारसदृशैर्धवलोऽसि महीभृताम् ।

जनैः समन्ततः स्तोत्रकोटिलक्ष्मा हि गीयते ॥

अपलोकमानस्य वृषभत्वप्रतीत्याऽनुचिताऽर्थता ।

लोकाऽसमेन सम्पूज्या सदा समभुजप्रिया ।

करोतु सुखजातं ते जलाश्रयशरीरजा ॥
 

 
अत्र लोकाऽसमसमभुजजलाश्रयशरीरजशब्दा लोकत्रयचतुर्भुजज-

लनिधितनूजानामवाचकाः ।
 

 
फूत्कारोच्छ्रनगल्लोऽयं रोदिति प्रतिवासरम् ।

त्यक्त खादनपानश्च भल्लं वेत्ति न किञ्चन ॥

 
अत्र फूत्कारगल्लादिशब्दा ग्राम्याः ।
 

वामाऽवलोकनोत्साही विग्रहव्यग्रलोचनः ।

सकम्पकटकोऽप्येष किञ्चित्कर्तेतुं समीहते ॥

 
अत्र नामादिशब्दाः शत्रुयुद्ध सेनार्थाः, किं कामिनीदेहकङ्कणार्या इ.
-
ति सन्देहः ।
 

 
विशो वाणिज्यकर्तारः सुखिनः स्युस्तदा गृहे ।

यदि तेषां स्वकृत्येषु प्रवृत्तिः सततं भवेत् ॥

अत्र विटप्रवृत्तिशब्दौ जुगुप्साव्यञ्जकौ ।