This page has been fully proofread once and needs a second look.

साधुस्तस्य परस्परव्यभिचारे साधुत्वात् । एवमन्येषामपि समासग-
तत्वमृह्यम् ॥
 
इति श्रीमैथिलश्रीगङ्गानन्दकवीन्द्रकृतौ
काव्यडाकिन्यां प्रथमा दृष्टिः ।
 
निरर्थत्वाऽसमर्थत्वच्युतसंस्कृतिते॒तरः ॥
सर्वो वाक्येऽप्ययं दोषः पदभागेऽपि कश्चन ॥ १ ॥
 
कश्चन न तु सर्वः ।
ननु निरर्थकत्वादीनां नानापदवृत्तित्वे वाक्यदोषत्वमक्षुण्णमित्यत
ई--ह--

वाक्यदोषोऽन्वयज्ञानहेत्वनेकपदस्थितिः ॥
कुत इत्याह--

निरर्थकादिभिः शब्दरैदैरनेकैरेन्वयस्य धीः ॥ २ ॥
कथञ्चिज्जन्यते नैव तेन ते नैव तद्गताः ॥
 
ते निरर्थकादयः । नैव तद्गता नैव वाक्यवृत्तयः ।
नन्वेवमनेकस्मिन्नवाचकेऽतिव्याप्तिरिति चेत् न, तत्र सामान्य-
तोऽन्वयबोधो भवतीत्युक्तम् । इह तु केनाऽपि प्रकारेणाऽन्वयबोधः ।

क्रमणैषामुदाहरणानि यथा--

परेतगोष्ठ्या परिवेष्ट्यमानो यश्चेष्टते नाट्यकलाऽभियुक्तः ।
खट्वाङ्गजुष्टः किल यस्य हस्तः स स्तादभीष्टाय तवाऽष्टमूर्तिः ॥
 
अत्र श्रोत्रकटुत्वं स्पष्टम् ।
ननु रसविरुद्धा वर्णा इत्युक्तम् । अत्र तु रस एव नास्ति, कस्य
प्रतिबन्धोऽस्त्विति चेत् न, रस्यत इति व्युत्पत्या रसपदेन भावोऽप्यु-