This page has not been fully proofread.

द्वितीया दृष्टिः ।
 
११
 
साधुस्तस्य परस्पर व्यभिचारे साधुत्वात् । एवमन्येषामपि समासग
 
-
तत्वमृह्यम् ॥
 

 
इति श्रीमैथिल श्रीगङ्गानन्दकवीन्द्रकृतौ

काव्यडाकिन्यां प्रथमा दृष्टिः ।
 

 
निरर्थत्वाऽसमर्थत्वच्युत संस्कृतिते॒तरः ॥

सर्वो वाक्येऽप्ययं दोषः पदमाभागेऽपि कश्चन ॥ १ ॥
 

 
कश्चन न तु सर्वः ।
 

ननु निरर्थकत्वादीनां नानापदवृत्तित्वे वाक्यदोषत्वमक्षुण्णमित्यत
 

आई-
-
वाक्यदोषोऽन्वयज्ञानहेत्वनेकपदस्थितिः ॥
 

कुत इत्याह--
निरर्थकादिभिः शब्दरैने कैरेन्वयस्य धीः ॥ २ ॥

कथञ्चिज्जन्यते नैव तेन ते नैव तद्द्वताः ॥
 
कुत इत्याह-

 
ते निरर्थकादयः । नैव तद्गता नैव वाक्यवृत्तयः ।
 

नन्वेवमने कस्मिन्नवाचकेऽतिव्याप्तिरिति चेत् न, तत्र सामान्य-

तोऽन्वयबोधो भवतीत्युक्तम् । इह तु केनाऽपि प्रकारेणाऽन्वयबोधः ।

 
क्रमणैषामुदाहरणानि यथा-
-
परेतगोठ्या परिवेष्ट्यमानो यश्चेष्टते नाट्यकलाऽभियुक्तः ।

खट्वाङ्गजुष्टः किल यस्य हस्तः स स्तादमीभीष्टाय तवाऽष्टमूर्तिः ॥

 
अत्र श्रोत्रकटुत्वं स्पष्टम् ।
 

ननु रसविरुद्धा वर्णा इत्युक्तम् । अत्र तु रस एव नास्ति, कस्य

प्रतिबन्धोऽस्त्विति चेत् न, रस्यत इति व्युत्पत्या रसपदेन भावोऽप्यु-