This page has been fully proofread once and needs a second look.

तद्धितार्थविशेषणीभूताऽन्यपदार्थे बहुवीव्रीहौ यथा--

कुसुमं विशिखो भृङ्गः सहायो दग्धदेहता ।
यस्याऽस्ति स स्मरो विश्वं क्षोभयत्येतदद्भुतम् ॥
अत्राऽश्रोक्षोभहेतौ प्रदर्शनीये देहो दग्ध इति दग्धत्वं विधेयम् ।
 
यद्विरुद्धधियो हेतुर्विरुद्धमतिकारि तत् ॥ १७ ॥
 
धिय इति निश्चयरूपाया इत्यर्थः । तेन सन्दिग्धे नाऽतिव्याप्तिः ।
यथा--

गौरीलोलविलोचनाऽञ्चलचमत्कारावलोकोल्लस--
द्रोमाञ्चप्रचयप्रसारणजडीभूताऽङ्गविक्षेपणः ।
तालव्याकुलयोगिनीगणसमाहूताऽमरेन्द्रासुरैः
स्मेरास्यावलिवीक्षितो जयकृते भूयाद्भवानीपतिः ॥
 
अत्र भवानीपतिशब्देन भवस्य पत्नी भवानीति व्युत्पत्या भवपत्निनी-
पतिप्रत्ययः । ननु भवानीपतिपदं शिवे योगरूढमतो न विरुद्धाऽर्थप्र-
त्यय इति चेत् न, सामग्रीसद्भावे विरुद्धाऽर्थस्मरणवारणस्याऽशक्यत्वा-
त् । यथा वा--

कण्ठे हाराऽवाप्तिः कुचयुगले चन्दनालेपः ।
शुचि वसनं तव कः पथिं विधुभासस्त्वां विशेषयतु ॥
अत्र हाराऽवस्थाsवाप्तिरिति विरुद्धा प्रतीतिः ।
 
समासे थोत्रकटुत्वं यथा--

प्रवासनिरतः कान्तः स्वयं च नवयौवना ।
दधातु सा कथं प्राणानक्षीणेन्दुक्षये क्षणात् ॥
 
स्पष्टम् ।
 
रक्तप्रवालमिव ते पाणियुगं लोचने अरुणे ।
अद्भुतमिदमिह यत्त्वं सम्प्रत्यनुरागशून्याऽसि ॥
 
अत्र रक्तप्रवालमिति प्रवालत्वस्य रक्तत्वाऽव्यभिचारात्कर्मधारयो-