This page has not been fully proofread.

१०
 
काव्यडाकिन्याः
 
तद्धितार्थविशेषणीभूताऽन्यपदार्थे
 
बहुवीहौ यथा-
कुसुमं विशिखो भृङ्गः सहायो दग्धदेहता ।
यस्याऽस्ति स स्मरो विश्वं क्षोभयत्येतदद्भुतम् ॥
अत्राऽशोभहेतौ प्रदर्शनीये देहो दग्ध इति दग्धत्वं विधेयम् ।
 
यविरुद्धधियो हेतुर्विरुद्धमतिकारि तत् ॥ १७ ॥
 
धिय इति निश्चयरूपाया इत्यर्थः । तेन सन्दिग्धे नाऽतिव्याप्तिः ।
 
यथा-
गौरीलोलविलोचनाऽञ्चलचमत्कारावलोकोल्लस-
द्रोमाञ्चप्रचयप्रसारणजडीभूताऽङ्गविक्षेपणः ।
तालव्याकुलयोगिनीगणसमाहूताऽमरेन्द्रासुरैः
 
स्मेरास्थावलिवीक्षितो जयकृते भूयाद्भवानीपतिः ॥
अत्र भवानीपतिशब्देन भवस्य पत्नी भवानीति व्युत्पत्या भवपत्ती-
पतिप्रत्ययः । ननु भवानीपतिपदं शिवे योगरूढमतो न विरुद्धाऽर्थप्र-
त्यय इति चेत् न, सामग्रीसद्भावे विरुद्धाऽर्थस्मरणवारणस्याऽशक्यत्वा
तू । यथा वा-
कण्ठे हाराऽवाप्तिः कुचयुगले चन्दनालेपः ।
 
शुचि वसनं तव कः पथिं विधुमासस्त्वां विशेषयतु ॥
अत्र हाराऽवस्थाsवातिरिति विरुद्धा प्रतीतिः ।
समासे थोत्रकटुत्वं यथा-
प्रवासनिरतः कान्तः स्वयं च नवयौवना ।
दधातु सा कथं प्राणानक्षीणेन्दुक्षये क्षणात् ॥
 
स्पष्टम् ।
 
रक्तप्रवालमिव ते पाणियुगं लोचने अरुणे ।
अद्भुतमिदमिह यत्वं सम्प्रत्यनुरागशून्याऽसि ॥
 
अत्र रक्तप्रवालमिति प्रचालत्वस्य रक्तत्वाऽव्यभिचारात्कर्मधारयो