This page has been fully proofread once and needs a second look.

अत्राऽनुमितत्वस्य समासे गुणीभावादप्राधान्यम् । अतो न विधेय-
त्वम् । तस्मादभिषेकजनिताऽतिपुण्यमनुमितमिति युक्तम् ।
 
कर्मधारये यथा--
सरसिजसुन्दरवदने ! नयनतरङ्गस्तवोल्लासी ।
मदनस्याऽपरमोहनबाण इवाऽन्तर्विमोहयति ॥
 
अत्राऽपरत्वमुत्प्रेक्ष्यं तस्य समासे गुणीभावादप्राधान्यम् ।

नञ्समासे यथा नैषधीयचरिते--
निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येनेद्रयमौनमुद्रितात् ।
अदर्शि सङ्गोप्य कदाऽव्प्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥
 
अत्राऽवीक्षित इत्यत्र प्रसज्यप्रतिषेधो विधेयत्वेन वक्तुमुचितस्त-
स्य समासे गुणीभावात्पर्युदासत्वेन विधेयत्वाऽनवगमः । यदुक्तम्--

अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता !
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥

तथा चाऽत्र निषेधस्याऽप्राधान्यादविधेयत्वम् ।
 
यत्र तुनिषेधस्य प्राधान्यं, तत्र यथा--
त्वहेद्देहध्युतयः सरन्ति परितो नो विद्युतस्त्वद्भुजे
पर्यस्ता चिकुरावलीयमधुना नो शैवलानां चयः ।

हारस्ते हृदये कुरङ्गनयने ! नाऽसौ मृणालीलता

कोऽयं चेतसि विभ्रमस्तव सखि । त्रासः परित्यज्यताम् ॥

अत्र नञर्थ एव विधेयः । पर्युदासलक्षणं तु--

प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥
 
जघानाऽकुपितो लोके सकलान् प्रतिभूपतीन् ।
समस्तधरणीभारं बभाराऽयमपीडितः ॥
 
अत्राऽकुपितत्वाद्यनूध्द्य प्रतिभूपतिहननाद्येव विधेयमतो गुणभाषो
नञर्थस्याऽभिष्ठः ।