This page has not been fully proofread.

प्रथमा दृष्टिः ।
 
अत्राऽनुमितत्वस्य समासे गुणीभावादप्राधान्यम् । अतोन विधेय
न विधेय-
त्वम् । तस्मादभिषेक जनिताऽतिपुण्य मनुमितमिति युक्तम् ।

 
कर्मधारये यथा-
-
सरसिजसुन्दरवदने ! नयनतरङ्गस्तवोल्लासी ।

मदनस्याऽपरमोहनबाण इवाऽन्तर्विमोहयति ॥

 
अत्राऽपरत्वमुत्प्रेक्ष्यं तस्य समासे गुणीभावादप्राधान्यम् ।

नञ्
समासे यथा नैषधीयचरिते-
-
निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येनेद्रय मौनमुद्रितात् ।

अदर्शि सङ्गोप्य कदाऽव्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥

 
अत्राऽवीक्षित इत्यत्र प्रसज्यप्रतिषेधो विधेयत्वेन वक्तुमुचितस्त-

स्य समासे गुणीभावात्पर्युदासत्वेन विधेयत्वा ऽनवगमः । यदुक्तम्-
-
 
-
अप्राधान्यं विधेयंर्यत्र प्रतिषेधे प्रधानता !

प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥

तथा चाऽत्र निषेधस्याऽप्राधान्यादविधेयत्वम् ।

 
यत्र तुनिषेधस्य प्राधान्यं, तत्र यथा-
त्व
-
त्वहेहध्युत
यः सरन्ति परितो नो विद्युतस्त्वभुजे

पर्यस्ता चिकुरावलीयमधुना नो शैवलानां चयः ।

हारस्ते हृदये कुरङ्गनयने ! नाऽसौ मृणालीलता
 

कोऽयं चेतासेतसि विभ्रमस्तव सखि । त्रासः परित्यज्यताम् ॥
 

 
अत्र नर्थ एव विधेयः । पर्युदासलक्षणं तु-
-
प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता ।

पर्युदासः स विज्ञेयो यत्रेोरोत्तरपदेन नञ् ॥
 

 
जघानाऽकुपितो लोके सकलान् प्रतिभूपतीन् ।
 
समस्तव

समस्तध
रणीभारं बभाराज्यमपीडितः ॥
 

 
अत्राकुपितत्वाद्यन्यनूध्य प्रतिभूपतिहननाद्येव विधेयमतो गुणभाषो

नञ
र्थस्थाsभः ।
 
याऽभिष्ठः ।