This page has not been fully proofread.

प्रथमा दृष्टिः ।
 
अत्राऽनुमितत्वस्य समासे गुणीभावादप्राधान्यम् । अतोन विधेय
त्वम् । तस्मादभिषेक जनिताऽतिपुण्य मनुमितमिति युक्तम् ।
कर्मधारये यथा-
सरसिजसुन्दरवदने ! नयनतरङ्गस्तवोल्लासी ।
मदनस्याऽपरमोहनबाण इवाऽन्तर्विमोहयति ॥
अत्राऽपरत्वमुत्प्रेक्ष्यं तस्य समासे गुणीभावादप्राधान्यम् ।
नसमासे यथा नैषधीयचरिते-
निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येनेद्रय मौनमुद्रितात् ।
अदर्शि सङ्गोप्य कदाऽव्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥
अत्राऽवीक्षित इत्यत्र प्रसज्यप्रतिषेधो विधेयरवेन वक्तुमुचितस्त-
स्य समासे गुणीभावात्पर्युदासत्वेन विधेयत्वा ऽनवगमः । यदुक्तम्-
-
 
अप्राधान्यं विधेयंत्र प्रतिषेधे प्रधानता !
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥
तथा चाऽत्र निषेधस्याऽप्राधान्यादविधेयत्वम् ।
यत्र तुनिषेधस्य प्राधान्यं, तत्र यथा-
त्वयः सरन्ति परितो नो विद्युतस्त्वभुजे
पर्यस्ता चिकुरावलीयमधुना नो शैवलानां चयः ।
हारस्ते हृदये कुरङ्गनयने ! नाऽसौ मृणालीलता
 
कोऽयं चेतासे विभ्रमस्तव सखि । त्रासः परित्यज्यताम् ॥
 
अत्र नअर्थ एव विधेयः । पर्युदासलक्षणं तु-
प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयो यत्रेोत्तरपदेन नञ् ॥
 
जघानाऽकुपितो लोके सकलान् प्रतिभूपतीन् ।
 
समस्तवरणीभारं बभाराज्यमपीडितः ॥
 
अत्राकुपितत्वाद्यन्य प्रतिभूपतिहननाद्येव विधेयमतो गुणभाषो
नर्थस्थाsभः ।